________________ नैषधीयचरितं महाकाव्यम् भाव:-अमृतोत्थेन सारेण भैम्यास्तवें संविधायेन्दुरब्जेन निद्रालुनाम् / असुशक्यं विलोक्य स्वयंतन्मुखं प्राभवत् पूर्णिमाशर्वरीश: शशी // अनुवादः-चन्द्रमा अपने अमृत से निकले नवनीत से उत्पन्न अङ्ग वाली क्रमशः उघरी हुई पीतिमा से युक्त शरीर वाली दमयन्ती को बनाकर रात्रि में संकुचित होने वाले कमल से दुर्घट उसका मुख स्वयं बन गये / / 129 // अस्याः स चारुमधुरेव कारुः श्वासं वितेने मलयानिलेन / अमूनि पुष्पैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन // 130 // अन्वयः-चारुः सः मधुः एव अस्याः कारुः मलयानिलेन श्वासम् वितेने पुष्पैः अमूनि अङ्गानि विदधे पिकपञ्चमेन वाचं चकार / व्याख्या-चारुः= चतुरः, सः- प्रसिद्धः, मधुः = वसन्तः, एव अस्याःदमयन्त्याः , कारुः= शिल्पी, मलयानिलेन = मलयमारुतेन, श्वासम् = निश्वासम्, वितेने = कृतवान्, पुष्पैः = कुसुमैः, अमूनि = प्रत्यक्षमनुभूयमानानि अङ्गानि = अवयवान् विदधे %Dविहितवान् पिकपञ्चमेन = कोकिलपञ्चमस्वरेण वाचम् = टिप्पणी-पिकपञ्चमेन = पिकस्य पञ्चमेन (पिक: कूजति पञ्चमम् ) इत्युक्तः। भाव:-सुरभिरेव सकासवरो व्यधात् नृपसुताश्वसितं मलयानिलैः / ___अवयवान् कुसुमैर्वचनं तथा विकसितेन चकार मनोहरम् // अनुवाद:-चतुर वसन्त कारीगर ही इस दमयन्ती का शिल्पी है उसी ने पिक से पञ्चम स्वर से इसकी मधुर वाणी को बनाया / / 130 // कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः।। रूपस्य शिल्पे वयसा स वेधा निर्जीयते स स्मरकिङ्करेण // 131 // अन्वया-एषा स्मरस्य एव कृतिः नैव धातुः हि अस्याः शिल्पी इतरकारुजेयः न रूपस्य शिल्पे सः वेधा स्मरकिङ्करेण वयसा आपि निर्जीयते / व्याख्या-एषा-दमयन्ती, स्मरस्य - कामस्य, एव कृतिः= रचना धातुः = ब्रह्मणः, न हि / यतः अस्याः = दमयन्त्याः , शिल्पी = कारुः इतर कारुजेयः न-शिल्प्यन्तरविजेयो न, सः-प्रसिद्धः वेधाः = ब्रह्मा तु स्मरकिङ्ककरेण%3 कामानुचरेण वयसा = यौवनेन अपि, निर्जीयते = पराजीयते किमुत कामेन /