________________ पशमः सर्गः . अन्वया-एषा श्रोणो गुरुः स्तनयो वा गुरुः ( इति संशये ) धातुः करेण तल्लास्य तुलिता तेन अङ्गुलीनां त्रिभिः अन्तरालः उदीतमध्यत्रिवलीविलासा। व्याख्या-एषा = दमयन्ती, श्रोणी:नितम्बे, गुरु:-गुर्वी, स्तनयोः-कुचयोः वा गुरुः गोरवयुक्ता, इति संशय इति शेषः / धातुः ब्रह्मणः करेण = हस्तेन उल्लास्य = उत्थाय तुलिता= समं धारिता किम् - उत्प्रेस, तेन-तोलनेन अङ्गुलीनाम् = करावयवानाम्, त्रिभिः%3Dत्रिसङ्ख्याक: अन्तरालैः = व्यवधानः उदीतमध्यत्रिवलीविलासा = उद्गतान्तरालस्य त्रिवलीशोभायुक्ता जाता। टिप्पनी-उदीतमध्यत्रिवली विलासा =उदीतः मध्ये त्रिवलीविलासो यस्याः सा तथोक्ता ( व्यधिकरणबहुव्रीहिः)। उदीत = उत्पूर्वकादिणः क्तप्रत्ययः / भाव:-गुरू स्तनयोरेषा श्रोणी वेति वेधसा समुत्तोल्य / . परीक्षिता कि यगुलिमध्योत्पत्रिवलिसंयुता यस्मात् // अनुवादा-यह दमयन्ती नितम्ब भाग में गुरु है कि स्तनभाग में गुरु है ऐसा संशय होने पर विधाता के हाथ से उठाकर बीच भाग में धारण कर परीक्षा की है जिससे चार अङ्गुलियों के तीन अवकाशों से निकली तीन रेखाओं से इसका-मध्यभाग शोभित हो रहा है // 128 // निजामृतोद्यन्नवनीतजाङ्गीमेतां क्रमोन्मीलितपीतिमानम् / कृत्वेन्दुरस्या मुखमात्मनाऽभूनिद्रालुना दुर्घटमम्बुजेन // 129 // अन्वयः-इन्दुः निजामृतोद्यन्नवनीतजाङ्गीम् क्रमोन्मीलित पीतिमान एनाम् कृत्वा निद्रालुना अम्बुजेन दुर्घटम् अस्याः मुखम् आत्मना अभूत् / . . व्याख्या-इन्दुः =चन्द्रः निजामृतोद्यन्नवनीतजाङ्गीम् = स्वीयामृतोत्पद्यमान दधिसारीत्पनाङ्गीम् क्रमोन्मीलितपीतिमानम् = क्रमोत्पन्नपीतवर्णाम, एनाम् = दमयन्ती, कृत्वा- विधाय, निद्रालुना = रात्री सङ्कोचभाजा अम्बुजेन = कमलेन दुर्घटम् अस्याः = दमयन्त्याः मुखम् आत्मना = स्वयम् अभूव =भवतिस्म / टिप्पणी-निजामृतोद्यन्नवनीतजाङ्गीम् = निजं यत् अमृतं निजामृतम् तस्माद् उद्यत् यन्नवनीतम् तज्जान्यङ्गानि यस्या सा ताम् तथोक्ताम् / (कर्मधारय प० तत्पु० पुरःसरो बहव्रीहिः ) क्रमोन्मीलित पीतिमानम् = क्रमेण उन्मीलिता पीतिमा यस्या सा ताम् (बहुव्रीहिः ) निद्रालुना "तन्द्रिपतिदयि निन्द्रेत्यादिना निन्द्राधातो आलुच् प्रत्ययः / “अमृतं व्योम्नि देवान्ने मोक्षे हेम्नि च गोरसे" इति वैजयन्ती, "दघिसारो नवनीतम्" इति हलायुधः /