________________ नेषषीयचरितं महाकाव्यम् सौन्दर्यातिशय के निर्माण का प्रयास मुक्त पुरुषों को पश्चात्ताप करने के लिये है। दमयन्ती के रहने से सदा आनन्दमय संसार को छोड़कर हमलोग व्यर्थ ही मुक्त हुए ऐसा प्रश्चात्ताप के लिये है // 132 // आख्यातुमक्षिव्रजसर्वपीतां भैमी तदेकाङ्गनिखातदक्षु / गाथासुधाश्लेषकलाविलासैरलञ्चकाराननचन्द्रमिन्द्रः // 133 // अन्वयः-अथ इन्द्रः अक्षिवजसर्वपीताम् भैमी तदा एकाङ्गनिखातदिक्षु आख्यातुं गाथासुधालेप कलविलासः आननचन्द्रम् अलञ्चकार / व्याख्या-अथ - उक्तप्रकारेण राजकः दमयन्ती वर्णने कृते इन्द्रः = देवराजः, तदा = तस्मिन् काले, एकाङ्गनिखातदिक्षु = एकावयवदर्शनदत्तदृष्टिषु, अक्षिवजसर्वपीताम् = सहस्रनेत्रदृष्टसर्वाङ्गशोभाम्, भैमीम् = दमयन्ती, ख्यातुम् = वर्णयितुम्, गाथासुधाश्लेषकलाविलासैः = श्लोकामृतश्लेषालङ्काररचनाचमत्कारैः अन्यत्रामृतसम्पर्केण षोडशकलाविलासः आननचन्द्रम् = मुखेन्दं अलञ्चकार भूषयाञ्चकार / श्लिष्टार्थ्य वक्ष्यमाणश्लोकेनाकथयत् / टिप्पणी--अक्षिवजसवंपीताम् = सर्व पीता सर्वपीता अक्षणां व्रजम् अक्षिव्रजम् अक्षिवजम् (पूर्वत्र सुप्सुपेति समासः अन्यत्र ष० तत्पु० ) अक्षिवजेन सर्व पीताम् गाथासुधाश्लेषकलाविलासः= गाथा सुधाया या श्लेष कला तस्याः विलासः (10 तत्पु० ) एकाङ्गनिखातदिक्षु = एकस्मिन् अङ्गे निखाता दृष्टयो येषां ते तेषु (बहुव्रीहि ) एकमङ्गम् एकाङ्गमत्र (पूर्वकालेत्यादिना समासः)। भावः-द्विनेत्रेषु भैम्येकदेशेक्षणेषु सहस्रेक्षणदृ'ष्टसर्वाङ्गशोभः / __सुरेशस्तदा स्वाननेन्दुं गिरा तमेकार्थभाजा समायोजयत्सः // अनुवादः- इसके बाद देवराज ने अपने सहस्र नेत्रों से दमयन्ती के सभी अङ्गों को देखकर उसके एक एक अङ्ग के दर्शन में लगी दृष्टि वालों में कहने के लिये इस प्रकार श्लिष्टार्थक पद्य कला से अपने मुखचन्द्र को अलङ्कृत किया / / 133 // स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा / हेमेव कायप्रभयाऽङ्गशेषैस्तन्वी मतिं कामति मेनकाऽपि // 134 // अन्वयः-इयं स्मितेन गौरी, दृशा हरिणी, सुन्दरकण्ठभासा वीणावती, कायप्रभया हैमीव, अङ्गशेषः तन्वी मेनकाऽपि मे मति कामति /