________________ नेवधीयचरितं महाकाव्यम् यासां ता आलिमाला सखीचयो यस्या सा ता किशोरशाखाग्रशयालिमालाम पक्षे-किशोरशाखानां नवपल्ल बानामग्रीणि तेषु शेरत इति तथाभूता अलिमाला भ्रमरपङ्क्ति यस्या सा तां तथोक्ताम् / अग्रशया-अत्र शीङ धातो "अधिकरणे शेते" इति डप्रत्यय (ब० बी० ) "आमोदो हर्षगन्धयोः, आशुगौ वायुविशिखो, इति विश्वामरी / शाखाग्रशयः अत्र 'चरेष्टः" इति ट प्रत्ययः / भाव:किसलयाङ्गुलिनेजसखीवृताम् कुसुमचापसहर्षसमाश्रिताम् / नृपतिकल्पनगरपि लिप्सितां सुरभिभाससुसम्पदमुत्तमाम् // सुरभितां कुसुमैः सुवासिताङ्गी किसलयशायिमिलिन्दमालिकाम् / सुरपति सुरवृक्षलिप्सितां सुरभिऋजु श्रियमुत्तमां दधानाम् // अनुबाद:-कामदेव ने जिसके अङ्ग में सहर्ष निवास किया है, एवं किसलय के समान कोमल अङगुलियों वाली जिसकी सखियां हैं, पक्ष मेंसुगन्ध वाले पुष्प और मलयानिल से वासित एवं किसलयों पर विराजमान भ्रूमरों से युक्त भूपति एवं देवराज रूप कल्पद्रुमों से भी अभिलषित वसन्तलक्ष्मी के समान स्थित उस दमयन्ती को // 97 // पीतावदातारुणनीलभासां देहोपलेपात् किरणैर्मणीनाम् / गोरोचनाचन्दनकुङ्कुमण-नाभीविलेपान् पुनरुक्तयन्तीम् // 98 // अन्धयः-पीतावदातारुणनीलभासां मणीनां किरणः देहोपलेपान् गोरोचनाचन्दन-कुङ्कुमणनाभिलेपान् पुनरुक्तयन्तीम् / प्याल्या-पीतावदातारुणनीलभासाम् = गौरश्वतरक्तनीलरुचाम्, मणीनाम् = रत्नानाम्, किरणः = प्रभाभिः, देहोपलेपान् = अङ्गरागभूतान्, गोरोचनमलयज-कुङ्कुम-कस्तूरिविलेपान् समानाकारतया पुनरुक्तयन्तीम् = पुनरुक्तान कुर्वाणाम् दमयन्तीम् / टिप्पणी-पीताचावदाताश्चारुणाच नीलाश्चेति तथोक्ता भासः येषान्ते तेषां पीतावदातारुणनीलभासाम् (वन्द्वगर्भो बहुव्री० ) देहस्योपलेपान् =देहोपलेपान (10 तत्पु०) गोरोचना च चम्बना कुकुमश्च ऐणनाभिश्चेति-गोरोचनाचन्दनकुङ्कुमेणनामयः, तेषां लेपान (इन्दगर्भो ब० व्रीहिः) पुनरुक्तयन्तीम् = पुनरुक्तशब्दात् करोत्यर्थकण्यन्तात् शतृ प्रत्ययः /