________________ रामः सर्गः भाव:-पीतवलक्षारुणशितिमणिकिरणानां समूहेन / ' मोरोचनमलयजरसकुकुममृगमदलेपान् पिदधतीम् // मनुवा-पीत-श्वेत-रक्त एवं नील मणियों की कान्ति से लिप्त होने के कारण देह में अङ्गराग के रूप में उपयुक्त गोरोचन चन्दन-कुकुम एवं मृग मदों के उपलेप को पुनरुक्त करती हुई // 98 // स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य / तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् // 99 // अन्वयः-प्रसूनेन शरासनेन नलस्य जेतारम् स्मरम् अश्रद्दधतीम् तस्मै स्वभूषा-दृषदंशुशिल्पं वलिद्विषः कार्मुकम् अपंयन्तीम् / प्यास्या-प्रसूनेन = पुष्पेण, शरासनेन = धनुषा, नलस्य = नैषधस्य, बेतारम् = विजयिनम् स्मरम् = कामम्, अश्रद्दधतीम् = अविश्वसतीम् अतएव स्वभूषादृषदंशुशिल्पम् = निजालङ्कारप्रोतमणिकिरणनिर्मितम् वलिद्विषः इन्द्रस्य, कार्मुकम् -धनुः, तस्मै = स्मराय अर्पयन्तीम् = प्रददतीम् इव / व्यञ्जकाप्रयोमात् गम्योत्प्रेक्षालङ्कारः। टिप्पणी-शरासनेन = शरा अस्यन्तेऽनेनेति शरासनम् तेन, स्वभूषादृषदंशुशिल्पम् = स्वस्य भूषा तस्यां दृषदः तेषामंशुभिः (10 स० 10 तत्पुरुषाः) शिल्पं यस्य तत् (स० तत्पु०) बलिद्विषः= बलि द्वेष्टीति बलि द्विट् तस्य बलिद्विषः ( उपपदसमासः) / सत्सू-इत्यादिना द्विष् धातोः क्विप् प्रत्ययः / भावः-मृदुना कुसुमशरेण नलस्य विजयमश्रद्दधतीम् / निजभूषादृषदुत्थे तस्या इन्द्रस्य कार्मुकं ददतीम् / मनुवाद:-काम द्वारा कोमल पुष्प के धनुष से वीरवर नल के विजय का विश्वास न करती हुई इसलिये काम को अपने भूषण के रत्नों की किरणों से बने दृढ इन्द्र के धनुष को देती हुई // 99 // विभूषणेभ्यो वरमंशुकेषु ततो वरं सान्द्रमणिप्रभासु / सम्यक् पुनः क्वापि न राजकस्य पातुं दृशा धातृकृतावकाशाम् // 10 // .मन्वय:-विभूषणेभ्यः वरम् अंशुकेषु ततः वरं सान्द्रमणि प्रभासु (आसज्य ) राजकस्य दृशा सम्यक् पातुम् क्वापि न धातृकृतावकाशाम् / व्याया-विभूषणेभ्यः = अलङ्कारेभ्यः, तेषु आसज्य ततः परं यथा स्यात्तथा अंशुकेन = वस्त्रेष, आसज्य ततः वरं सान्द्रमणिप्रभासु = सघन रनकान्तिषु