________________ बशमः सर्गः अन्वयः-आकल्पविच्छेदविवजितः श्रुतमूलशाली कण्ठेश्रितः यः धर्मशास्त्रव्रजः स एव यस्याः मूर्धा वृत्तः कस्ये मुदे न ( इति ) पश्यामि / / व्याल्या-आकल्पविच्छेदविवर्जितः =प्रलयकालपर्यन्तविनाशरहितः श्रुतमूलशाली वेदप्रमाणितः, अन्यत्र-आकल्पः =अलङ्कारादि, तद्विच्छेदरहितः तत्सहित इत्यर्थः, श्रुतमूलशाली कर्णमूलशोभितः, कण्ठेस्थितः = मुखे स्थितः अन्यत्र-कण्ठोपरि स्थितः, तत् = प्रसिद्धः, धर्मशास्त्रवजः =धर्मशास्त्रसमूहः; तस्याः = वाग्देव्याः, मूर्धा = वृत्त: मस्तकाकारेण परिणतः वृत्तः = वर्तुल:, कस्य जनस्य मुदे=आनन्दाय न आसीदित्यर्थः। टिप्पणी-आकल्पविच्छेदविवर्जितः = आकल्पं विच्छेदेन रहितः, कल्पमभिव्याप्याकल्पं ( अव्ययीभावः ) ततः विच्छेदरहितशब्दस्य सुप्सुपेति समासः / पक्षे आकल्पविच्छेदः तेन रहितः / (तृ० तत्पुरुष) श्रुतमूलशाली= श्रुतं वेद एव मूले तेन शाली ( कर्म धार० तृ० तत्पु० ) शालेणिनि ( उपपदसमासः) धर्मशास्त्राणां व्रजः (10 तत्पु० ) “वेदे श्रवसि च श्रुतम्" इत्यमरः / . भाव:-श्रुतमूलादुल्लसितश्चाकल्पविनाशरहितश्च / / कण्ठे स्थितः सुमूर्धा यस्याः वृक्तः स धर्मशास्त्रचयः॥ : अनुवारः-प्रलयपर्यन्त विनाशरहित, ( आकल्प - भूषण ) के विनाश से एहित, भूषणसहित वेद के प्रमाण से शोभित श्रुत ( कर्ण) मूल से शोभित, वचन में स्थित (कण्ठ से ऊपर स्थित ) धर्मशास्त्रों का समूह जिस सरस्वती देवी का ( वृत्त ) गोलाकार मस्तक के रूप में परिणत हुआ किसके आनन्द के लिये न था // 5 // भ्रवी दलाभ्यां प्रणवस्य यस्यास्तद्विन्दुना भालतमालपत्रम् / तदद्धचन्द्रेण विधिविपञ्ची-निक्वाणनाकोणधनुः प्रणिन्ये / / 86 // अन्वयः-विधिः प्रणवस्य दलाभ्यां अस्या ध्रुवी तद्विन्दुना भालतमालपत्रं तदर्धचन्द्रेण विपञ्चीनिक्वाणनाकोणधनुः प्रणिन्ये / व्याख्या-विधिः = ब्रह्मा, प्रणवस्य = ओङ्कारस्य, दलाभ्याम् = पत्राभ्याम्, अस्याः = सरस्वत्याः, ध्रुवी-भ्रूयुगलम्, तद्विन्दुना= विन्दुसदृशरेखयां, भालतमालपत्रम् = भालस्थतिलकम्, प्रणवार्धचन्द्राकारेण प्रणवार्धचन्द्राकाररेखया, विपञ्चीनिक्वाणकोणधनुः = कच्छपीवादनोपकरणम्. प्रणिन्ये = प्रणीतवान् / टिप्पणी-प्रणवः-प्रणयत्यूचं प्राणात् इति प्रणवः / "तमालपत्रतिलक 50