________________ नैषधीयचरितं महाकाव्यम् करने के लिये वा उनसे विजय प्रशस्ति पत्र देने के लिये सामर्थ्य कैसे हो सकता है // 23 // सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुमयीभविष्णु / तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् // 84 // अन्वयः-व्यासपराशराभ्याम् प्रणीतभावात् उभयीभविष्णु तत् मत्स्यपद्माद्युपलक्ष्यमाणं सपल्लवं पुराणं यत्पाणियुग्मं ववृते / / व्याख्या--व्यासपराशराभ्याम् = द्वैपायनपराशराभ्याम्, प्रणीतभावात् = निर्मितत्वात् उभयीभविष्णु = पुराणोपपुराणाभ्यामुभयरूपतामापन्नम्, सपल्लवम् = सविस्तारं, तत् प्रसिद्धम्, मत्स्यपद्माद्युपलक्ष्यमाणम् पुराणम् यत्पाणियुग्मम् -यस्याः वाग्देव्या हस्तयुगलम्, ववृते संजातम् / पक्षे-मत्स्यपद्मध्वजरूपसामुद्रिकोक्तरेखाभिः उपलक्ष्यमाणम् / सपल्लवम् = पल्लवेन सदृशम् किसलयोपमम् / टिप्पणी-व्यासपराशराभ्याम् = व्यासश्च पराशरश्चेति व्यासपराशरी तभ्याम् ( द्वन्द्वः), यद्यपि-अष्टादश पुराणानां कर्ता सत्यवतीसुत इत्युच्यते तथापि 'पुराणं वैष्णवं चक्रे यस्तं वन्दे पराशरम्' इत्युक्तमनुसृत्योक्तम् / उभयीभविष्णु = अनुभयं उभयं भविष्णु इत्युभयीभविष्णु 'अभूततद्भावे' (च्चि प्रत्ययः) भविष्णुश्च भुवश्चेतीष्णुच् प्रत्ययः / मत्स्यपादिनामत उपलक्ष्य माणम् पक्षे-ताशरेखायुक्तम् / सपल्लवम् = पल्लवेन सदृशम्, अव्ययविभक्ती. त्यादिना सादृश्यार्थकसहशब्देन समासः / 'अव्ययीभावे चाकाले' इति सहस्य सादेशः / भावः--पराशरव्यासविनिर्मितत्वात् वैविध्यमाप्तञ्च सपल्लवञ्च / ___ तन्मत्स्य पनादिविलक्षितं तत्पाणिद्वयं ह्यास पुराणवृन्दम् // अनुवादः-व्यास और पराशर से निर्मित होने के कारण पुराण एवं उपपुराण इन दो भागों में विभक्त एवं विस्तारयुक्त मत्स्यपद्मादि पुराण उस सरस्वती का मत्स्य-पद्म-ध्वज-कुलिश-रूप सामुद्रिक तदाकार रेखाओं से युक्त एवं पल्लवसदृश पाणियुगल हुआ // 4 // आकल्पविच्छेदविवजितो यः स धर्मशास्त्रव्रज एव यस्याः। पश्यामि मर्दा श्रुतमूलशाली कण्ठे स्थितः कस्य मुदे न वृत्तः?॥ 85 //