________________ 49 शमः सर्गः जायेंगे कि हजारों वर्षों में भी वे परस्पर अपने भाई को नहीं पहचान सकेंगे // 64 // स्थितेरियद्भिर्यवभिविदग्धर्दग्धेऽपि कामे जगतः क्षतिः का ? / एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् // 65 // अन्वयः-विदग्धः इयद्भिः स्थितैः युवकैः कामे दग्धे अपि जगतः का क्षतिः अम्बुराशेः एकाम्बुबिन्दुमयम् कः शोषदोष शंसति / व्याल्या-विदग्धःप्रगल्भैः, अदग्धः वा, इयद्भिः = एतावद्भिः, युवकैः, स्थितैः = वर्तमान।, जगतः=लोकस्य, का क्षतिः= का हानिः, अम्बुराशेःसमुद्रस्य, एकाम्बुबिन्दुभयम्, कः शोषदोष = शुष्कतावद्यताम्, शंसति = कथयति, न कोपीत्यर्थः। टिप्पणी-विदग्धः- दग्धं दाहः भावक्तान्तेन सह वेः गतिसमासः / इयद्भिः= इदं प्रमाणमेषामितीयन्तस्तैरियद्भिः (इदमः परिमाणे वतिप्रत्ययः 'किमिदभ्यां वो घः ) इति वस्य घादेशः घस्येयादेशः 'इदं किमोरीश्कीः' इदम ईशादेशः / एकाम्बुबिन्दुक्षयम् = अम्बुनः बिन्दुः (10 तत्पु० ) एकनासो अम्बु बिन्दुः एकाम्बुबिन्दुः तस्य क्षयम् / शोषदोषम्-शोष एव दोषः (कर्मधारयः ) / भावः-हरनिटिलनिरीक्षणप्रदग्धे सृतिमुवि लोकस्य का अतिर्जाता। - स्थितवति नूपपुत्ररत्नराजी सलिननिधेरिवकविन्दुनाशेन // अनुवादः-इन प्रगल्भ अदग्ध युवकों के रहने पर एक कामदेव के जल जाने पर भी जगत् की क्या न्यूनता हुई, एक जलकण के नाश से भरे जल वाले समुद्र में भला कोई सूखने का दोष कहता है // 65 // इति स्तुवन् हूकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतेव / ओङ्कारभूम्ना पठतैव वेदान् महर्षिवृन्दैन तथाऽन्वमानि // 66 // मन्वयः- इति स्तुपन् सः गायता एव मन्धर्ववर्गेण हल्कृतिवर्गणाभिः (अन्यमानि ) वेदान् पठता एव महषिवृन्देन ओङ्कारभूम्ना अन्वमानि। व्याख्या-इति = एवं प्रकारेण, स्तुवन्, सः- उशनाः, गायता=गानं कुर्वाणन, गन्धर्ववर्गे- गन्धर्वसमूहेन, हुरुकृतेः- हुज़ारस्य, वर्गणाभिः पुनरुच्चारणेन, अन्वमानि- अन्वमोदि, वेदान् = समाम्नायान, पठताअधीयानेन, महर्षिवृन्देन =देवर्षिगणेन, . ओङ्कारभूम्ना ओङ्कारभूयस्त्वेन, अन्वमानिअनुमतः।