________________ नैषधीयचरितं महाकाव्यम् ____टिप्पणी--स्तुवन् = स्तोते: शतृ प्रत्ययः गन्धर्ववर्गेण = गन्धर्वाणां वर्गस्तेन (10 तत्पु०) हुकृतिवर्गणाभिः = हुकृतेः वर्गणा ताभिः (10 तत्पु०) महर्षिवृन्देन = महान्तश्च ते ऋषय: (कर्म०) तेषां वृन्देन (10 तत्पु०)। बहूनाम् भावः भूमा, बहुशब्दात 'पृथ्वादिभ्य इमनिच्' इतीमनिच् प्रत्ययः 'बहोर्लोपो भू च बहोः' इति बहोk आदेशः इकारलोपश्च भूमा, ओङ्कारस्या भूमा तेन ओङ्कारभूम्ना। भावः--गायद्भिर्गन्धर्वैः हुङ्कारानेडनैः ऋषिभिः / वेदान् पद्भिरेवमोङ्कारैरपि समर्पितः सम्यक् // अनुवादः--इस प्रकार प्रशंसा करते हुए शुक्राचार्य का गाते हुये गन्धर्वो ने हुङ्कार के उच्चारण से समर्थन किया, और वेद पढ़ते हुये महषियों ने बार-बार ओङ्कार के उच्चारण द्वारा समर्थन किया // 66 // न्यवीविशत्तानथ राजसिंहान् सिंहासनौघेषु विदर्भराजः। शृङ्गेषु यत्र त्रिदशेरिवेभिरशोभि कार्तस्वरभूधरस्य // 67 // अन्वय:--अथ विदर्भराजः तान् राजसिंहान् सिंहासनेषु न्यवीविशत्, यत्र एभिः कार्तस्वरभूधरस्य शृङ्गेषु त्रिदशः इव अशोभि / व्याल्या-अथ = अनन्तरम्, विदर्भराजः= भीमः, तान् = आगतान्, राजसिंहान् = भूपतीन्, सिंहासनेषु = राजाहपीठेषु, न्यवीविशत् = निवेशितवान्, यत्र = यस्मिन् सिंहासने, एभिः = नृपः, कार्तस्वरभूधरस्य = सुमेरोः, शृङ्गेषु = शिखरेषु, देवैः = अमरैः, इव = यथा, अशोभि = अराजि। टिप्पणी--विदर्भाणां राजा विदर्भराजः, 'राजाहःसखिभ्यष्टच्' इति टच् प्रत्ययः / राजसिंहान् = राजानः सिंहा इव तान् इति राजसिंहान् ('उपमितं व्याघ्रादिभिः इत्यादिना समासः)। न्यवीविशत् = निपूर्वकाद् विशतेय॑न्ताल्लुङ् / कार्तस्वरभूधरस्य = कार्तस्वरस्य भूधरः तस्य (10 तत्पु० ) अशोभि, भावे लुङ्। भाव:--राजा भीमो राजपुत्रानशेषान् सौपर्णेष्वस्थापयत् स्वासनेषु / यत्रावस्थस्तविरेजे सुमेरोः शृङ्गेषूच्चैः देवकल्पः समस्तैः / / अनुवादः-राजा भीम ने उन सभी राजकुमारों को सिंहासनों पर बैठाया, जहां वे सुमेरु पर्वत के शिखर पर बैठे देवों के समान शोभित हुये // 67 //