________________ दशमः सर्गः 47 को नष्टकर दिया ये तरुण राजकुमार उस कामदेव का शंकर के भय के निवारणार्थ उपाय स्वरूप अनेक शरीर धारण का विलास हैं क्या? क्या ये सभी युवक अनेक शरीरधारी कामदेव ही हैं ? / / 61 / / पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत् क्वापि निधाय वेधाः। तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये // 62 // - अन्वयः-शिल्पी वेधा: अनुमासम् भिन्नान् पूर्णेन्दुबिम्बान् क्वापि निधाय अस्थापयत्, अथ तैरेव एषाम् लावण्यमयानि मुखानि निरमात् / व्याख्या-शिल्पी - कारुः, वेधाः = ब्रह्मा, अनुमासम् = प्रतिमासम्, भिन्नान् = भेदवतः, पूर्णेन्दुबिम्बान् = परिपूर्णचन्द्राकारान्, क्वापि = कुत्रचन, निधाय = निक्षिप्य, अस्थापयत् = स्थापितवान् अथ = एतन्मुखनिर्माणकाले तैः= पूर्णचन्द्रः एव एषाम् = यूनाम्, लावण्यमानि = सौन्दर्यप्रचुराणि मुखानि = आननानि, निरमात् =निर्मितवान् / टिप्पणी-अनुमासभिन्नान् = मासि मासीति अनुमासम् ( वीप्सार्थेऽव्ययीभावः ) तस्मिन् भिन्नान् ( स० तत्पु० ) / पूर्णेन्दुबिम्बान् = पूर्णश्चासाविन्दुः पूर्णेन्दुः तस्य बिम्बान् ( कर्मधारयपुरःसरः ष० तत्पु० ) / भाव: चतुरश्चतुराननः, स शिल्पी प्रतिमासं परिपूर्णचन्द्रबिम्बान् / क्वचनापिहितान् न्यधत्त तैः किल व्यधितषां वदनानि राजकानाम् // अनुबावः-कुशल कारीगर विधाता ने हर महीनों में भिन्न भिन्न चन्द्रबिम्बों को कहीं छिपा कर रख दिया था बाद में इन युवकों के मुख बनाने के समय उन्हीं चन्द्रबिम्बों से इनके मुखों को बनाया है क्या / / 62 // मुधाऽपितं मूर्द्धसु रत्नमेतैर्यन्नाम तानि स्वयमेत एव / स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणार्थमर्थ्यम् // 63 // . अन्वयः-एतैः मूर्धसु रत्नं वृथा अपितम् यत् एते तानि स्वयमेव नाम स्वतः प्रकाशे परमार्थबोधे स्फुरणार्थ बोधान्तरं न अथ्र्यम् / . व्याख्या-एतः = भूपतियुवकः, मूर्धसु = मस्तकेषु, रत्नम् = हीरकादिमणयः, वृथा = निष्फलम्, धृतम् = अवस्थापितम्, यतः यस्मात् कारणात्, एते = युवानः, तानि = रत्नानि, स्वयमेव = आत्मना एव, नाम =खल, स्वतःप्रकाशे