________________ मैषधीयचरितं महाकाव्यम् स्वसा = दमनभगिनी ( दमयन्ती ), न अकर्षत् = आकृष्टवती, किन्तु विधाता अपि = वेधा च, सञ्चित्य = एकीकृत्य, इदम् = वर्तमानम्, स्वशिल्पसर्वस्वं = निजरचनाकौशलसारम्, अदशि = दर्शितवान् / टिप्पणी-सञ्चित्य = सम्पूर्वात् चिनोतेः क्त्वो ल्यप् / स्वशिल्पसौन्दर्यम् - स्वस्य शिल्पं तस्य सौन्दर्यम् (10 तत्पु० ) / भावः-भीमनृपो भैमी वा नहि गुणविभरिमान् समाकर्षत् / विधिरपि निजं सुशिल्पम् परिदर्शयितुं सुचित्य नृपयूनः / / अनुवाद:-इन तरुणों को केवल भीम राजा. अथवा दमयन्ती ही अपने सौन्दर्य से आकृष्ट करके यहां नहीं लाये, किन्तु भगवान् स्वयम्भू ने भी इकट्ठा अपने शिल्प के सौन्दयं को दिखलाने के लिये एकत्र किया है। एकाकिभावेन पुरा परारिर्यः पञ्चतां पञ्चशरं निनाय / . तद्भीसमाधानममुष्य काय-निकायलीलाः किममी युवानः ? // 61 // अन्वयः-यः पुरारि: एकाकिभावेन पुरा पञ्चशरम् पञ्चताम् निनाय अमी युवानः अमुष्य तभीसमाधानं कायनिकायलीलाः किम् / व्याख्या-य: - असो पुरारि:= त्रिपुरविजेता शिवः, एकाकिभावेन - एकाकितया, पुरा-प्राक, पञ्चशरम् = कामम्, पञ्चताम् = पञ्चभावम्, निनायनीतवान् दग्धवानित्यर्थः / अमी- दृश्यमानाः, युवानः =तरुणाः अमुष्य - कामस्य तभीसमाधानम् = कामभयनिवारणम्, कायनिकायलीला = देहव्यूहविलासाः किम् / पूर्व शङ्करः सहायहीनं कामः ननाश इति कामस्यासहायत्वात ततो भयमासीत् इदानीम् एतयुवशरीरात्मनो बहुत्वात् ततो न भयमिति भावः। टिप्पणी-पुरारि:=पुराणामरिः पुरारिः (10 तत्पु०)। एकाकिभावेन = एकाकिनो भावः तेन (10 तत्पु०)। पञ्चशरम् = पञ्चशरा यस्य सः तम्, (बहुव्रीहि ) 'कामः पञ्चशरः स्मरः' इत्यमरः / तद्भीसमाधानम् = ततः भीः तभीः तस्या समाधानम्, (50 50 तत्पु०)। कायनिकायलीला:= कायानां निकायः तस्य लीलाः (10 तत्सु०)। भावः-तदैककोऽदाहि हरेण कामः भूयोभिरत्रस्थितमित्यभीतेः / उपायभूताः किंममी युवानः निकामकामाकृतयः समेताः // अनुवाद-जिस भगवान् शङ्कर ने पहले अकेले होने के कारण कामदेव