________________ बसमः सर्गः वाले बृहस्पति ने भी सुन्दर स्वयंवर सभा की प्रशंसा की है जिसकी जिह्वा को मैं सरस्वती के बैठने के लिये पीठ स्थान समझता हूँ॥५८ // नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित् कविर्यः। देतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत् // 59 // अन्वयः-यः दिव्यत्तमदेववाचि नाके अपि वाचःस्रगाचार्यकवित् कविः दैतेयनीतेः पथि सार्थवाहः सः काव्यः काव्येन सभाम् अभाणीत् / __व्याख्यायः = काव्यः, दीव्यत्तमदिव्यवाचि%देदीप्यमानसुरगिरि, नाके - स्वर्गे अपि वचःस्रगाचार्यकवित् = काव्यरचनाचार्यतावेत्ता, कवि:- कवयिता दैतेयनीतेः = दैत्यनयस्य, पथि = मार्गे, सार्थवाहः = अग्रेसरः, नेता सः काव्य:उशनाः, काव्येन = कवितया, सभाम् = स्वयंवरसभाम्, अभाणीत = वर्णयतिस्म / टिप्पणी-दीव्यत्तमदिव्यवाचि =अतिशयेन दीव्यन्ती दीव्यत्तमा सा दिव्यवाक् यत्र तस्मिन् दीव्यत्तमदिव्यवाचि / वचःस्रगाचार्यकवित-वचसां सक् वच: सक् तस्याः आचार्यकम् आचार्यता तां वेत्तीति वचःस्रगाचार्यकवित् (ष. तत्पुरुषद्वयम्) दीव्यन्ती शब्दात्तमप् प्रत्यये 'तसिलादिष्वकृत्वसुचः' इति पुंवद्भावः / आचार्यस्य भावः आचार्यकम् 'पोपधाद्गुरुपोत्तमात्" इति आचार्यशब्दाद् वुन् / दैतेयनीते:-दित्याः अपत्यानि दैतेयाः तेषां नीतिः तस्याः दैतेयनीतेः 'कृदिकारादक्तिनः' इति डोषन्तात् दितिशब्दात् 'स्त्रीभ्यो ठक्' इति ढक् प्रत्ययः / सार्थवाहः = साथं वहतीति सार्थवाहः 'कर्मण्यण्' इत्यण् प्रत्ययः / भावः-उशनसाऽपि च देवगिरोऽङ्गणे दिवि कवित्वकलापटुना स्तुता। दितिजनीतिसृतेरुपदेशकः स किल तत्सदसोऽग्रसरः स्मृतः // अनुवावा-देववाणी के रङ्गप्राङ्गण, स्वर्ग में भी जो काव्यरचना की आचार्यता करते हैं और जो दैत्यों के नीति मार्ग के निदेशक एवं उनके नेता कहे जाते हैं उन शुक्राचार्य ने भी उस सभा की प्रशंसा की // 59 // अमेलयद्धीमनृपः परं ना नाकर्षदेतान् दमनस्वसैव। . इदं विधाताऽपि सश्चित्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः // 6 // अन्वयः-एतान् यूनः भीमनृपः परं न अमेलयत् तथा दमनस्वसा न अकर्षत किन्तु विधाता अपि सञ्चित्य इदं स्वशिल्पसर्वस्वम् अदशि / व्याख्या-एतान् = दृश्यमानान्, यूनः = तरुणान्, भीमनृपः = भीमभूपतिः परम् - केवलम्, न = नहि, अमेलयत् = सङ्गतवान्, तथा = अथवा; दमन