________________ समः सर्गः रसात् = रागात; न असेवि =न सेविता किम्, महर्षिभिः = महामुनिभिः, हर्षेण =आनन्देन, न अदशि = न दृष्टा किम् / टिप्पणी-आप्तशोभा =अप्ता शोभा यया सा आप्तशोभा (ब० वी०)। यक्षलक्षः = यक्षाणाम् लक्षाणि यक्षलक्षाणि ते यक्षलक्षः= लक्षसंख्याकैर्यक्षः; (10 तत्पु०)। अदशि अत्र दृशेः, अलक्षि अत्र लक्षः, अध्यासि अत्र अधिपूर्वकादासेच कर्मणि लुङ् / भावः-लक्षशो दक्षयक्षाः विलक्षाः समोयु स्तत्समिद्धाश्च सिध्या प्रसिद्धाः सुसिद्धाः / किन्नरस्तनिकामं सदः सेवितञ्च सप्रकर्षप्रहर्षमहषिप्रकाण्ड: अनुवादः-उस काल में शोभा से युक्त उस सभा को लाखों यक्षों ने देखा, सिद्ध लोग आकर वहां बैठे, किन्नरों ने भी रागपुरःसर उसको सेवित किया, बड़े-बड़े मुनियों ने भी उसको हर्ष पूर्वक देखा // 56 // वाल्मीकिरश्लाघत तामनेकशाखात्रयीभूरुहराजिभाजा। क्लेशं विना कण्ठपथेन यस्य देवी दिवः प्राग्भुवमागमद्वाक् // 57 // अन्वयः-तां वाल्मीकिः अश्लाघ, अनेकशाखात्रयीभूगहराजिभाजा यस्य कण्ठपथेन देवी वाक् छन्दोबद्धा अक्लेशेन दिवः प्राक् भुवम् आजगाम / व्याख्या-ताम् - सभाम्, बाल्मीकिः प्राचेतसः अश्लाघव = प्रशंसितवान्, अनेकशाखात्रयीभूरुहराजिभाजा=आश्वलायनादिविविधशाखान्वितवेदभूरुहश्रेणीभृता यत्कण्ठपथेन = यदीयगलमार्गेण दैवी= नैलिम्पी, वाक् = वाणी, अक्लेशेन =श्रमं विनव, दिवः = स्वर्गात, प्राक् = तत्प्रथमम् भुवम्, धरणीम् आप प्रापत् / / टिप्पणी-अनेका शाखा यस्या सा अनेकशाखा (बह०) सा चासो त्रयी (कर्मधारयः ) त्रयाणां वेदानां समाहारः त्रयी सैव भूरुहराजिः तां भजतीति 'भजो वि' इति वि प्रत्ययः अनेकशाखात्रयीभूलहराजिमाक् तेन तथोक्तेन, सैव भूरुहराजिः मयूरव्यंसकादिसमासः / कण्ठ एव पन्थाः अत्रापि पूर्ववत् समासः / 'ऋक्पूरब्धूपयामित्यादिना अच् समासान्तः टिलोपः। यथा वृक्षश्रेणीभृतामार्गेण छायासु विश्रम्य पथिका अक्लेशेन आगच्छन्ति तथेत्यर्थः / पुरा वाल्मीकिमुनेः मुखात ब्याधविद्धसहचरविरहकातरक्रोच्याक्रन्दश्रवणजन्यः शोकः श्लोकात्मना परिणम्य "मा निषाद प्रतिष्ठा स्वमगमः शाश्वतीः समा। यत्कोच