________________ 42 नेषधीयचरितं महाकाव्यम् विलोकमाना वरलोकलक्ष्मी तात्कालिकीमप्सरसो रसोत्काः। जनाम्बुधौ तत्र निजाननानि वितेनुरम्भोरुहकाननानि / / 55 // अन्वयः-रसोत्काः अप्सरसः तात्कालिकी वरलोकलक्ष्मी विलोकमाना तत्र जनाम्बुधौ, निजाननानि अम्भोरुहकाननानि बितेनुः / ___ व्याख्या-रसोत्काः = रागोत्सुकाः, अपसरसः = देवाङ्गनाः, तात्कालिकीम् = स्वयंवरसामयिकीम्, वरलोकलक्ष्मीम् = वरसमुदायशोभाम्, विलोकमानाः= पश्यन्त्यः, तत्र = तस्मिन्, जनाम्बुधौ = लोकसागरे, निजाननानि = स्वमुखानि, .अम्भोरुहकाननानि = नलिनवनानि, वितेनुः = व्यतनुत / टिप्पणी-रसोत्का: रसे उत्काः ( स० तत्पु० ) 'उत्क उन्मना' इत्यमरः / निपातनात् सिद्धम् / अप्सरस:-'पुंसि भूम्न्यप्सरसः' इत्यमरः / तात्कालिकोम् = सः काल: तत्काल: (कर्मधारयः) तत्काले भवा तात्कालिकी 'कालाट्ठन् इत्यादिना भवार्थे ठञ् प्रत्ययः "टिड्ढे'त्यादिना डीप् / वरलोकलक्ष्मीम् - वरा एव लोकास्तेषां लक्ष्मीम् ( कर्मधारय पुरःसरः 10 तत्पु०)। जना एव अम्बुधिः ( कर्मधारयः ) तस्मिन् / निजाननानि = निजानि आननानि (कर्मधारयः ) / अम्भोरुहकाननानि = अम्भोरुहाणां काननानि (10 तत्पु० ), रोहन्तीति रहः 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः। भाव:--स्वर्गाङ्गनास्तत्र जनाम्बुराशी स्वयंवरालोकनकोतुकिन्यः / ___ समेत्य पनिजवकसंधैः पनाकराणीव सुसन्ततानि / / अनुबादः-स्वयंवर देखने के लिये उत्कण्ठित देवाङ्गनाओं ने आकर उस काल में होने वाली स्वयंवर की शोभा को देखते हुए, उस जनसागर में अपने मुखरूपी कमल के काननों को मानो फैला दिया // 55 // न यक्षलक्षः किमलक्षि? नो सा सिद्धः किमध्यासि सभाऽऽसशोभा ? / सा किन्नरैः किं न रसादसेवि ? नादर्शि हर्षेण महर्षिभिश्च? // 56 // अन्वय:-तदा आप्तशोभा सा सभा यक्षलक्षः न अलक्षि किम्, सिद्धः न अध्यासि किम्, किन्नरः रसात् न असेवि किम्, महर्षिभिः हर्षेण न अदशि किम् ? न्याया-तदा तस्मिन् काले, आप्तशोमा शोभासम्पन्ना, सा सभासा संसद, यक्षलक्षः = लक्षसंख्याकैयक्षः, न अलक्षि न दृष्टा किम् ? सिद्धः= देवयोनिविशेषः, न अभ्यासिन अधिष्ठिता किम्, किन्नरः- देवयोनिविशेषः;