________________ बशमः सर्गी अद्रिम् = सुमेरुम् पर्यक्षिपत् = पर्यक्रामत्, अपरेण = अन्येन आत्मना मुरारे:= विष्णोः, चक्षुः= नेत्रम्, अभवत् = आसीत्, शेषः = अवशिष्टः, मात्मभिः लोकपूर्णा = जनसम्भृताः, दश =दशसंख्याकाः, दिशः=हरितः अलोकत।। __ टिप्पणी-द्वादशात्मा = द्वादश आत्मानो यस्य सः द्वादशात्मा (बहुव्रीहिः) / मुरारे:= मुरस्यारिः मुरारिः तस्य मुरारेः (10 तत्पु० ) / भाव:-एकात्मना व्याप्य गिरि सुमेरुमन्येन विष्णोर्नयनं भवंश्च / . दिशो दशान्यरवलोककोऽन्यः स भास्करो द्वादशमूर्तिरासीत् // . अनुवादः-द्वादशात्मा दिवाकर अपने एक आत्मा से सुमेरु पर्वत की प्रदक्षिणा करते रहे, दूसरे से भगवान् विष्णु के नेत्र बने रहे और बचे दश आत्माओं से जनपूर्ण दशों दिशाओं को देखे। अपने सभी अधिकारों का भार बहन करते हुये भी स्वयंवर का सर्वेक्षण किया // 53 // प्रदक्षिणं देवतहर्म्यमद्रिं सदेव कुर्वन्नपि शर्वरीशः। द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या न प्राप तद्दर्शनविघ्नतापम् // 54 // अन्वयः-शर्वरीशः देवतहर्म्यम् अद्रिं सदैव प्रदक्षिणं कुर्वन् अपि महेन्द्रानुजदृष्टिमूर्त्या द्रष्टा तद्दर्शनविघ्नतापम् न प्रापत् / ___ व्याख्या-शर्वरीशः = निशाकरः, देवतहर्म्यम् = देवप्रासादभूतम्, अद्रिम् - सुमेरुम्, प्रदक्षिणम् = परिक्रमन्, कुर्वन् = विदधदपि, महेन्द्रानुजदृष्टिमूर्त्या - विष्णुनेत्राकारेण, द्रष्टा = स्वयंवरावलोककः तदर्शनविघ्नलेशम् - स्वयंवरदर्शनव्याघातदुःखम्, न- नहि, प्रापत्=प्राप्तवान् / टिप्पणी--शर्वरीशः = शर्वर्याः ईशः शर्बरीशः (10 तत्पु०)। देवतहम्यम् - देवतानाम् हय॑म् (10 तत्पु० ) / महेन्द्रानुजदृष्टिमूर्त्या =महेन्द्रस्य अनुजः तस्य दृष्टिः तया मूर्त्या (प० तत्पु० द्वयं कर्मधारयश्च ) तद्दर्शनविघ्नतापम् - तस्य दर्शनम् तस्मिन् विघ्नः तेन तापम् (ष० स० तृतीयातत्पु० ) / भाव:-विधुरलभत विघ्नं नैव तदर्शने'. यदयमधिमुरारी वामदृष्टिस्वरूपः / दधदपि निजकार्य मेरुपर्याक्रमाख्य __. मतिशयमुदमापत् भीमजोराहदृष्टी // मनुवादः-निशाकर सुमेरु पर्वत की प्रदक्षिणा करते हुये भी विष्णु की वाम दृष्टि रूप से स्वयंवर का अवलोकन करते रहे, जिस कारण उनको स्वयंवर दर्शन में विघ्नजनित सन्ताप का लेश भी नहीं प्राप्त हुआ // 54 //