________________ नैषधीयचरितं महाकाव्यम् गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत् खलत्वम् / रूपेण तत्संसददूषितस्य सुरेनरत्वं यददूषि तस्य // 44 // - अम्बयः-केन अपि गुणेन अनवद्ये जने दोषान्तरोक्तिः तत् खलत्वम् खलु, यत् रूपेण तत्संसद् अदूषितस्य तस्य सुरः नरत्वम् अदूषि / व्याख्या केनापि = लोकातिगामिना, गुणेन = सौन्दर्यादिना, अनवद्ये = स्तुत्यर्थे, जने = लोके विषये, दोषान्तरोक्ति:-दोषान्तरकथनम्, तत् = दोषकथनम् खलत्वम् = दुष्टता खलु, यत् = यस्मात्, रूपेण = सौन्दर्यसम्पदा, अदूषितस्य = तया सभया प्रशंसितस्य, तस्य = नलस्य, नरत्वम् = मानुष्यकम्, अदूषि सुन्दरोऽपि नरोऽयं न देव इति निन्दितः / टिप्पणी-अनवद्येन वद्य अवद्यः न अवद्यः अनवद्यः ( 'अवधपण्य. गहें 'त्यादिना निपातनात साधुत्वम् ) / दोषान्तरोक्तिः = अन्यः दोषः दोषान्तरम् तस्य उक्तिः, (पूर्व च मयूरव्यंसकादिः परत्र प० तत्पु०)। तत्संसददुषितस्य = तया संसदा अदूषितस्य (तृ० तत्पुरुषः ) / अदृषि = दूषते कर्मणि लुङ् / भावः-नर इति निन्दा देवः नलस्य गुणवतो विहिता। खलते वेषा तेषां प्रत्युत तामेव सम्प्रयताम् // गुणगरिमणि नरविषये केनाप्यापद्य दोषेण / या क्रियते खलु निन्दा खलतवेषा परं ज्ञेया / / भनुवार:-किसी लोकोत्तर गुण से परम प्रशस्त व्यक्ति की किसी कल्पित दोष से जो निन्दा की जाती है उसको निन्दक की दुष्टता ही समझनी चाहिये जो उस समय सभी सभा से प्रशंसित उस नल की देवों ने 'सुन्दर है किन्तु मनुष्य है' ऐसी निन्दा की। उलटे अच्छा होने के लिये जब कि उन्होंने ही उस नरता को धारण किया है नल बनकर सभा में बैठे हैं / / 44 // नलानसत्यानवदत् स सत्यः कृतोपवेशान् सविधे सुरेशान् / नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्ययुजी भवन्तः ? // 45 // अन्वयः-सत्यः सः असत्यान् नलान् सविधे कृतोपवेशान् सुरेशान् अवदत, भवन्तः नासत्ययुजी उभी इलाभूः दर्पकच किम् / व्याख्या-सत्यः = यथार्थः, स:= नलः, असत्यान् = कल्पिताकारान् नलान्, सविधे- समीपे, कृतोपवेशान् - विहितस्थितीन्, सुरेशान् = देवधीशान्, अवदत = अचकथयत, भवन्तः = यूयम् नासत्ययुजोआश्विनेयसहितो, उमोदी, इलाभूः पुरुरवाः, दर्पक: कामः, च किमु इति प्रश्ने /