________________ बशमा सः टिप्पणी स एवार्थः कविना भङ्गयन्तरेण पुनरुक्तः / भाव:-अधिभुवि नवः सुधांशुः रतिनाथोऽयं श्रितो द्वित्वम् / . दसतृतीया मूर्तिः स्तुत्योऽप्येवं नुतो दुष्टः / / अनुवादा-यह नल भूतल में चन्द्रमा का प्रथमावतार है, यह युवक काम का द्विर्भाव है, यह अश्विनी कुमार की तीसरी मूर्ति है, इस प्रकार उन गुणद्वेषी, राजाओं ने नल की स्तुति के व्याज से निन्दा की // 42 // . इहेदृशाः सन्ति कतीति दुष्टैर्दष्टान्तितालोकनलावली तैः। आत्मापकर्षे किल मत्सराणां द्विषः परस्पर्धनया समाधिः // 43 // अन्वयः-दुष्टः तैः इह ईदृशाः कति सन्ति, इति अलीकनलाली दृष्टान्तिता मत्सराणाम् आत्मापकर्षे सति द्विषः परस्पर्धनया समाधिः किल / .. व्याल्या-दुष्टः खलः; तैः = भूपतिभिः, इह अस्यां सभायाम्, ईदृशाः= एवंविधाः, कति =अनेके, सन्ति = वर्तन्ते, इति = एवमुक्त्वा, अलोकनलालीकृतकनलाकृतयो देवाः दृष्टान्तिताः दृष्टान्तीकृताः, मत्सराणाम् =मात्सर्यवताम्, आत्मापकर्षे = शत्रुसकाशात् न्यूनत्वे सति, द्विषः=प्रतिपक्षस्य, परस्पर्धनया = सङ्घर्षणया कोटयन्तरसाधारण्यापादनेनेत्यर्थः। समाधिः-आत्मापकर्षपरिहारः किल= खलु / टिप्पणी-ईदृशाः = इमे इव दृश्यन्त इति ईदृशाः इदम् पूर्वकाद् दृशेः कम् प्रत्ययः, इदं किमोरीश्की इतीशादेशः, 'दृग्दृश्वतुषु' इति दीर्घः / कति =किमः परिमाणे डति प्रत्ययः किमः कादेशः / अलीकनलाली = अलीकाश्च ते नलाः (कर्म० ) तेषाम् आली ( 10 तत्पु०)। दृष्टान्तिताः= दृष्टान्तशब्दात् नामण्यन्तात् क्तः / आत्मापकर्षे = आत्मनः अपकर्षे / (10 तत्पु०) स्पर्धनया = स्वार्थे ण्यन्ताद् युच् / अर्थान्तरन्यासः। भावः-दिव्यरूपमवलोक्य तं नलं दुष्टचेतस इदं नृपा जगुः / . ईदृशा इह हि सन्त्यनेकशः कल्पिताकृतिनलाः प्रदशिताः // - अनुवादा-दुष्ट राजाओं ने इस सभा में ऐसे कितने नल बैठे हैं ऐसा कहकर वनवटी नल रूपधारी देवताओं को दृष्टान्त रूप में दिखलाया। ऐसा देखा गया है कि किसी की अपेक्षा से अपनी न्यूनता होने पर मत्सरी लोग प्रतिपक्षी को को अन्य के समकक्षवत्ता कर अपनी न्यूनता का समाधान करते हैं // 43 //