________________ नैषधीयचरितं महाकाव्यम् सुधांशुरेष प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् / दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः / / 41 / / अन्वयः-मत्सरिण: क्षितीशा। भुवि एषः प्रथमः सुधांशुः किम्, असो द्वितीयः स्मरः किम्, अयम् तृतीयः दस्रः किम् इति इमम् स्तुतिच्छलात निनिन्दुः / व्याख्या-मत्सरिणः = परगुणद्वेषिणः, क्षितीशाः = राजानः, भुवि =भूतले, एषः = पुरस्ताद् दृश्यमानः, प्रथमः आद्यः, सुधांशुः चन्द्रः, किम्, असौ = एषः द्वितीयः = अपरः, स्मरः = कामः किम्, अयम् = एषः, तृतीयः = त्रिसङ्ख्यापूरकः, दस्रः = अश्विनीकुमारः किम्, इति = एवम्, स्तुतिच्छलात् - प्रशंसाव्याजात्, एनम् = नलम्, निनिन्दुः = निन्दितवन्तः / टिप्पणी-मत्सरिणः मत्सरोऽस्त्येषामिति मत्सरिणः ( मत्वर्थीय इनिः ) / क्षितीशाः क्षितेः ईशाः (10 तत्पु०)। स्तुतिच्छलात्-स्तुतिरेव छलम् तस्मात् (कर्मधारयः) / द्वितीयः= द्वयोः पूरणः द्विशब्दात् 'देस्तीयः' इति तीयप्रत्ययः / तृतीयः त्रयाणां पूरणः 'त्रेः सम्प्रसारणञ्च' इति तीयप्रत्ययः सम्प्रसारणञ्च / भावःचन्दिरः सुन्दरो भूगतः किन्नवः स स्मरो वा दशोलक्ष्यतां नो गतः / अश्विनोः काऽपि सङ्ख्या त्रिकापूरणी वीक्ष्य भूया नलं तं क्षतादस्तुवन् // अनुवादः-गुणद्वेषी सभी राजे 'भूतल में यह पहला चन्द्रावतार है क्या; यह दूसरा काम है क्या, एवं अश्विनी कुमारों का तीसरा है क्या, इस प्रकार स्तुति के बहाने नल की निन्दा करने लगे // 41 // आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवाऽसौ रतिवल्लभस्य / - नासत्ययोर्मूर्तिरियं तृतीया इति स्तुतस्तैः किल मत्सरैः सः // 42 // अन्वयः-सः एषः भूमी आद्यम् विधोः जन्म, असौ युवा रतिवल्लभस्य द्वैतम् नासत्ययोः तृतीया मूर्तिः इति तैः सः मत्सरैः स्तुतः किल / व्याख्या-सः एषः = नल:, भूमो-धरण्याम्, विधोः = चन्द्रमसः, आद्यम् = प्रथमम्, जन्म = उत्पत्तिः, असौ युवा=तरुणः; रतिवल्लभस्य = कामस्य, दैतम् == द्वित्वम्, इयम् = एतादृशी, नासत्ययोः= दस्रयोः तृतीया त्रिसङ्ख्यापूरणी, मूर्तिः =आकारः, इति = एवम्, सः = नल:, तै:- भूपतिभिः, मत्सरवद्भिः स्तुतः = परिणतः। .