________________ बशमः सर्गः टिप्पणी--असत्यान् = न सत्यान् असत्यान् ( नन् तत्पु०)। कृतोपवेशान् = कृतः उपवेशो यस्ते कृतोपवेशास्तान् कृतोपवेशान् (बहुव्रीहिः) / सुरेशान् = सुराणामीशास्तान् (10 तत्पु० ) / नासत्ययुजी- नासत्याभ्यां युज्यते इति मासत्ययुजो 'सत्सू' इत्यादिना युजेः क्विप् प्रत्ययः। अथवा न सत्यो असत्यो न असत्यो नासत्यो। भावः-कृतकनलान् सविधस्थान् अवदत् सत्यो नलो यूयम् / किन्नासत्यामल: कामश्चात्रागताः सर्वे // अनुवादः-सत्य नल ने पास में बैठे बनावटी नल रूपधारी देवों से कहा कि आप लोग अश्विनीकुमारों के सहित पूरुरवा एवं कामदेव एक साथ इस स्वयंवर सभा में आये हैं क्या // 45 // अमी तमाहुः स्म यदत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् / अदर्पकाः स्मः सविधे स्थितास्ते नासत्यतां नापि बिभर्ति कश्चित् // 46 / / अन्वयः-अमी तम् आहुः स्म यत् ते सविधे स्थिता अत्र कस्य अपि इलायाम् उत्पत्तिः न अभृत, अदर्पकाः स्मः, कश्चित् नासत्यताम् अपि न बिति / व्याख्या--अमी = कल्पितनलाकाराः देवाः, तम् = नलम्, आहुः स्मकथयन्ति स्म, यत् = यस्मात् कारणाद, ते = तब, सविधे - समीपे, स्थिता:-भवस्थिता, ये वयम् अत्र = अस्माकं मध्ये, कस्यापि = कस्यचनपि, इलायाम् = . घरण्याम्, पक्षे-इलानाम्न्यां स्त्रियाम्, उत्पत्तिः जनिः, न अभूत् =नाभवत्, अदपंकाः कामभिन्नाः, पक्षे-दर्परहिताः स्मः, कश्चित् कोऽपि, नासत्यताम् = दसताम, पक्षे-सत्यताम्, न विति =न धारयति, नवयं आश्विनेयो पुरुरवाः कामश्च स्मः। पले-अस्मासु न कोऽपि भूमावत्पनः वयं दर्परहिता असत्या मिय्याभूताकृतयः स्मः। टिप्पणी--आहुः स्म - 'लट् स्मे' इति भूतकाले लट् / इला= काचित स्त्रीभूमिश्च 'गोभूवाचस्त्विडा इला' इत्यमरः / अदर्षका-दप:-अभिमानः कामश्च, तद्रहिताः, तद्भिन्नाश्च, कन्दर्पो वर्षकोऽनङ्गः कामः पञ्चशरः स्मरः' इत्यमरः, नासत्यताम् = नसत्यः असत्यः न असत्यः नासत्यः निपातनान्तलोपाभावः। भावा-ते तमूचुनलं कोऽपि नलाभवोऽदर्पकास्ते समीपे वयं संस्थिताः / कोऽपि नासत्यतां नो दधात्यत्र नो मिति सर्वानिमानेवमेव स्वयम् // अनुवादः-उन कल्पित नलाकार देवों ने नक को श्लिष्ट शब्दों में उत्तर