________________ नैषधीयचरितं महाकाव्यम् ङ्गणप्राघुणिके = भामाया अङ्गणं भामाङ्गणं तस्य प्राघुणिके भामाङ्गणप्राघुणिके, 'आवेशिकः प्राघुणिकः आगन्तुरतिथिः स्मृतः' इति हलायुधः / आचूडमूलं मुक्तारत्नविभूषितैश्चतुभिः देववृक्षः 'पञ्चते देवतरवो मन्दार: पारिजातकः / सन्तान: कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरः। मन्दारादिषु सत्स्वपि पारिजातं विना यथा धोनं शोभते तथा नलरूपधारिषु यमादिषु सत्स्वपि नलं विना सा स्वयंवर सभा न शुशुभे / भावः-सत्याङ्गणश्रीभृति पारिजाते . देवद्रुमद्योरिव सा नलेन / विना नलश्रीपुनरुक्तिभूत-देवः समाऽभूत् घृतदिव्यरत्ने।। अनुवाद:-वह स्वयंवरसभा नलरूपधारी एवं दिव्यरत्नभूषितयमादि चार देवों के यमकों से ( नानार्थक एकाकारवर्णधारियों से मुक्त होती हुई भी नल के बिना उस प्रकार नहीं शोभित हुई जैसे पारिजात के सत्यभामा के प्राङ्गण में चले जाने पर शेष मन्दारादि देववृक्षों से विभूषित भी स्वर्गलोक नहीं शोभता था। कलहप्रिय नारद के द्वारा पारिजात के दिव्यगन्ध वाले पुष्प को प्राप्त करके सत्मभामा के उस वृक्ष को लाकर अपने आंगन में रोपने के लिये अनुरोध करने पर भगवान् श्रीकृष्ण ने भीषण युद्ध द्वारा इन्द्र को पराजित करके पारिजात को स्वर्ग से लाकर सत्यभामा के आंगन में रोपा-ऐसी पौराणिकी कथा प्रसिद्ध है // 24 // तत्रागमद्वासुकिरीशभूषाभस्मोपदेहस्फुटगौरदेहः / फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवाद्यनुजीविवादः // 25 // अन्वयः-- ईशभूषाभस्मोपलेपस्फुटगौरवर्णः फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवेत्यनुजीविवाद: वासुकिः तत्र आगमत् / / ज्याख्या-ईशभूषाभस्मोपलेपस्फुटगौरवर्णः = शङ्कराभरणभसितोलनसङ्क्रमणस्पष्टशुभ्राकारः, फणीन्द्र-वृन्द्रप्रणिगद्यमानप्रसीदजीवेत्यनुजीविवाद:सर्पराजप्रतिपाद्यमानप्रसीदजीवेत्यनुवरकोलाहल:, वासुकिः = नागराजः सर्पविशेषः, तत्र= स्वयंवरसभायाम्, अभवत् = आसीत् / / टिप्पणी-ईशस्य भूषाभूतः भस्मन उपलपेन स्फुटो गौरवर्णो यस्य सः = ईशभूषा भस्मोपलेपस्फुटगौरवर्णः (प्राक् प० तत्पुरुषद्वयम् ततः ततः सर्वमिलितपदैरनेकपदो बहुव्रीहिः)। फणीन्द्राणां वृन्देन प्रणिगद्यमानः प्रसीदजीवेत्यनु