________________ बशमः सर्गः अन्तरम् = वैलक्षण्यम्, भैमी = दमयन्ती, पश्यतु = अवलोकयतु, इति = एतदर्थम्, भूपान् = घरापतीन्, आहृत = आनीतवान्, दिगीशान् = दिक्पालान्, अपि % च, स्पर्धाम् = नलाभिभवेच्छाम्, विधाय- कृत्वा, तेभ्यः दिक्पालेभ्यः, तस्य = नलस्य एव, प्रथिमानम् = महत्त्वम्, अस्य = दमयन्त्य, आख्यत् = अकथयत् / टिप्पणी-इयत्- इदं प्रमाणमस्येति इयत् 'प्रमाणे वतिः ततः किमिदंभ्यां वो घः' / इति वते वकारस्य घादेश: घस्येयादेशः 'इदं किमोइश्की' इतीदम इशादेशः इयत् / आहृत-आङ्पूर्वकात् हृधातोलुंङि रूपम् 'ह्रस्वादड्गादिति' सिचो लुक् / प्रथिमानम् = पृयोर्भावः प्रथिमा 'पृभ्वादिभ्य इमनिच्' इति इमनिच् प्रत्ययः, 'ऋतो हलादेरि'ति रादेशः / प्रथिमानम् आख्यत्-ख्याधातोलुंकि 'अस्यति' इत्यादिना च्लेरङादेशः / भावः-नृपान समादाय विशेषमस्य नलस्य तेभ्योऽवदद् विधाता / स्पर्धालवञ्चापि कृता दिगीशाः नलस्य वक्तुं प्रथिमानमेव // अनुवाद:-ब्रह्मा ने राजाओं से नल की विशेषता को दमयन्ती देखे इसलिये भूपालों को स्वयंवर में आकृष्ट कर दिया, दिक् पालों ने भी नल की स्पर्धा पैदा करके नल की ही महत्ता को दमयन्ती के प्रति कह दिया // 23 // सभा नलश्रीयमकर्यमाद्यनलं विनाऽभूद्धृतदिव्यरत्नैः। भामाङ्गणप्राघुणिके चतुभिर्देवद्रुमोरिव पारिजाते // 24 // अन्वयः-सभा नलश्रीयमकः धृतदिव्यरत्नः यमाद्यः नलं बिना पारिजाते भामाङ्गणप्राणिके देवगुमैः द्यौः इव बभूव। व्याख्या-सभा = स्वयंवरसभा, नलश्रीयमकः- पुनरुक्ताकारैर्नलरूपधारिभिः, धृतदिव्यरत्नः-विधृतमनोहराकाररत्नः, यमाद्यः - वैवस्वतादिभिः, नलम् = नैषधम्, विना= रहिता, पारिजाते - तन्नामके देववृक्षविशेष, भामाङ्गणप्राघुणिके = सत्यभामामन्दिरातिथी, धृतदिव्यरत्नैः- मनोहररत्नफल:, देवद्रुमः = अवशिष्टः, देववृक्षः, द्यौः= स्वर्ग इव, अभूत् - आसीद, नलं विना धीरहिता बभूवेति भावः। . टिप्पणी नलश्रीयमकः = नलत्रियो यमकः (10 तत्पु०) 'सत्यर्थे पृथगायाः स्वरव्यञ्जनसंहतेः' इत्यादियमकोक्तलक्षणरीत्यकाकारभिन्नार्थनलरूपधारिभिः। धृतदिव्यरत्नः=धूतानि दिव्यानि रत्नानि यैस्ते तेतदिव्यरत्नः, यमायः - यमः आविर्येषान्ते, तैः-यमावः ( उभयत्र बहु०), भामा