________________ दशमः सर्गः 21 जीविवादो यस्य सः = फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवेत्यनुजीविवादः (षष्ठी तरपुरुष, तृ• तत्पु० पुरःसरोऽनेकपदो बहुव्रीहिः) प्रणिगद्यमानेत्यत्र 'नर्गदे' त्यादिना णत्वम् / भाव-हरतनुभसितासङ्गात् वलक्षलक्षिताकृतिधरः / - वासुकिरासीत्तत्र प्रसीद जीवजयेत्यनुगैर्गदितः // अनुवाबा-भगवान् शङ्कर का भूषणभूत एवं उनके अङ्गराग रूप भस्म के सङ्क्रमण से अति धवल आकार वाले और कर्कोटक आदि अपने अनुजीवि वर्ग से कहे जाते हुए प्रसीद, जय, जीव इत्यादि शब्दों के कोलाहल से युक्त कासुकि नामक नागराज उस स्वयंवर सभा में आये // 25 // - द्वीपान्तरेभ्यः पुटभेदनं तत् क्षणादवापे सुरभूमिपालेः। तत्कालमालम्भि न केन यूना स्मरेषुपक्षानिलतूललीला // 26 // अन्वयः-तत् पुटभेदनं द्वीपान्तरेभ्यः सुरभूमिपालः क्षणाद् अवापे, तत्कालं केन यूना स्मरेषुपक्षानिलतूललीला न अलम्भि / .. ज्याया-तत् पुटभेदनम् = कुण्डिनपुरम्, दीपान्तरेभ्यः = प्लक्षादिभ्यः, सुरभूमिपाल:-देव-धरणिभृभिः, अथवा-तवीपरूपस्वर्गाय भूपतिभिः, क्षणात = शीघ्रम्, अवापे = आप्तम् / तत्कालम् = स्वयंवरकालम्, केन = कतमेन, यूना- यौवनवता, स्मरेषुपक्षानिलतूललीला = कामबाणपत्रजातवाततूलविलासः; न अलम्भि%लब्धा। टिप्पणी-पुटभेदनम् - 'पत्तनं पुटभेदनमि'त्यमरः / द्वीपान्तरेभ्यः-अन्येदीपा द्वीपान्तराणि तेभ्यः द्वीपान्तरेभ्यः। सुरभूमिपाल। - सुराश्च भूमिपालाश्चेति दन्तः / अपवा सुराणां भूमिः सुरभूमिः तो पालयन्तीति सुरभूभिपालास्तैः सुरभूमिपालः, दीपान्तराणां भोगभूमित्वात् सुरभूमिसादृश्यात् / तत्कालम् स एव कालः तत्कालम् 'अत्यन्तसंयोगे द्वितीया' / स्मरेषुपक्षानिलतूललीलास्मरस्य इषवः (10 तत्पु०) तेषां पक्षाः तेषामनिलेन तूलस्य लीला / (षष्ठी तत्पुरुषः तृतीया तत्पुरुषश्न ) / आलम्भि- 'चिण भावकर्मणोः' इति कर्मणि लुङ् चिण् / "विभाषा चिण्णमुलोः' इति वैभाषिक नुमागमः / अत्र निदर्शनासङ्कीर्णोऽर्थान्तरन्यासालङ्कारः / भाव-भीमभूभृत्पुरं तत् क्षणादानशे संगतीपतों भूपतीनां चयः / कामवाणाप्तपत्रोल्पतवायुभिः कनं तूलायितं यौवतः संसृतेः॥