________________ दशमः सर्गः सन्देहेन, अस्मान् इन्द्रादीन्, भजेत - वृणुयात्, इति = एतन्मात्रम्, शेपिताशा:अवशिष्टाभिलाषाः, सती अलीकरूपा = काल्पनिकाशा, काचित् = अनिर्वाच्या; चतुर्नली = नलचतुष्टयी, बभूव = भवति स्म। टिप्पणी-इन्द्रादिचतुष्टयी = चत्वारोऽवयवा अस्या इति चतुष्टयी 'सङ्ख्याया अवयवे तयप्' इति तयप् प्रत्यय "टिड्ढे'त्यादिना डीप 'इदुदुपधस्य' इति षत्वे ष्टुत्वम्, चतुष्टयी इन्द्रादीनां चतुष्टयी (10 तत्पु०)। नलभ्रमेण = नलस्य भ्रमस्तेन तथोक्तेन (10 तत्पु० ) / शेषिताशा = शेषिता आशा यस्याः सा ( बहुव्रीहि० ) / अलीकं रूपं यस्या सा अलीकरूपा (ब० वी० ) / चतुनली = चतुर्णा नलानां समाहारः ('तद्धितार्थे'त्यादिना द्विगुः समासः ) "द्विगो:' इति, डीप् / चतुर्नली। भावाकृतककृतनला कृतीन किलास्मान् दमयन्ती वृणुयात् क्वचिद् भ्रमेण / इति हृदि विघृताशया तदानी नलरूपा प्रययुः स्वयंवरे ते // अनुवादः-वे इन्द्रादि चारों दिक्पाल 'दमयन्ती कदाचित् नल के भ्रम से भी हम लोगों को वरण कर ले' एक मात्र अवशिष्ट इस आशा से विलक्षण बनावटी रूप वाले चार नल हो गये // 18 // - प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण। तद्वैतसिद्धिर्न बतानुमेने स्वाभाविकात् कृत्रिममन्यदेव // 19 // अन्वयः- तद् भवितुं प्रयस्यतां सुराणां द्वैतसिधिः दृष्टेन परस्परेण पृष्टेन न अनुमेने, बत स्वाभाविकात कृत्रिमम् अन्यदेव भवतीति शेष।। व्याख्या-तद्भवितुम् = नलीभवितुम्, प्रयस्यताम् = प्रयतमानानाम्, सुराणाम् = इन्द्रादीनाम, तद् द्वैतसिद्धिः = नलरूपताप्रतिपत्तिः दृष्टेन - दर्पणादाववलोकनेन, पृष्टेन =जिज्ञासितेन, परस्परेण = अन्योऽन्येन, न अनुमेनेनानुमता, बत= खेदः, यतः स्वाभाविकात = नैसर्गिकात्, कृत्रिमम् = कृतकम्, अन्यदेव-विलक्षणमेव भवतीति शेषः। - टिप्पणी--तभवितुम् = असः सः भवितुमिति तद्भवितुम्, अभूततद्भावे च्चि प्रत्ययः / दैतसिद्धिः = द्वयोर्भावः द्विता हितव दैतम् प्रज्ञादित्वात्स्वार्थेऽण् / दैतस्य सिद्धिः दैतसिद्धिः (10 तत्पु०)। कृत्रिमम् - क्रियया निवृत्तम् कृत्रिमम्, 'इवितः स्त्रि' इति वित्र प्रत्ययः, 'कोमंम्नित्यम्' इति पत्रेमम् च / 20