________________ नेषषीयचरितं महाकाव्यम् करके स्वयंवर में नहीं आये, पितामह के साथ विवाह कहीं लोक में नहीं देखा गया है न वेद और स्मृतियों में ही कहीं देखा गया है। लोक वेद विरुद्ध क्यों किया जाय // 16 // भैमीनिरस्तं स्वमवेत्य दूतीमुखात् किलेन्द्रप्रमुखा दिगीशाः। . स्पन्दे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजमीयुः // 17 // अन्वया-इन्द्रप्रमुखाः दिगीशाः दूतीमुखात् स्वं भैमीनिरस्तम् अवेत्य चित्तस्य मान्धं स्पन्दे मुखेन्दो च वितत्य ते राजसमाजम् ईयुः / व्याल्या--इन्द्रप्रमुखाः = इन्द्रप्रभृतयः, दिगीशाः = दिक्पालाः, दूतीमुखात् -प्रेष्याननाद, स्वम् = आत्मानम्, भैमीनिरस्तम् = दमयन्तीप्रतिषिद्धम् अवेत्य = ज्ञात्वा, चित्तस्य = मनसः, मान्द्यम् = विषादजाड्यम्, स्पन्दे = गतो, मुखेन्दी च=आननचन्द्रे च, वितत्य = प्रकाश्य, मन्दगतयः विवर्णमुखाश्च ते राजसमाजम् -नृपसभाम्, ईयुःजग्मुः। टिप्पनी-इन्द्रप्रमुखाः =इन्द्रः प्रमुखो येषां ते इन्द्रप्रमुखा ( बहुव्रीहिः ) दिगीशाः = दिशाम् ईशाः दिगीशाः (10 तत्पु०)। दूतीमुखात् = दूतीनां मुखात् (ष. तत्पु०)। भैमीनिरस्तम् = भैम्या निरस्तम् (तृ० तत्पु० ) / राजसमाजम् = राज्ञां समाजम् (10 तत्पु०)। ईयुः = इण् धातोलिट् (प्र० पु० बहुवचनम् ) / भावः-अनभिप्रेतं भैम्या दूतीमुखतः स्वमाकलप्यापि / इन्द्रादयो विषण्णाः राजसमाज समाजग्मुः // अनुवादः-अपनी अपनी दूतियों से दमयन्ती द्वारा अपने को अस्वीकृत जान कर भी इन्द्र आदि चार ( इन्द्र, यम, अग्नि एवं वरुण ) दिक्पाल अपने चित्त के खेद को गति एवं मुख द्वारा प्रकाशित करते हुये वे लोग राज समाज में सम्मिलित होने के लिये चले // 17 // नलभ्रमेणापि भजेत भैमी कदाचिदस्मानिति शेषिताशा। अभून्महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलोकरूपा // 18 // अन्वयः-सा इन्द्रादिचतुष्टयी भैमी कदाचित् नलभ्रमेण अपि अस्मान् भजेत इति शेषिताशा अलीकरूपा काचित् चतुर्नली बभूव / व्याख्या-सा-पूर्वोक्ता, इन्द्रादिचतुष्टयी = इन्द्रप्रभृतयः चत्वारो दिक्पालाः, भैमी- दमयन्ती, कदाचित् =कस्मिश्चित् काले, नलभ्रमेण = नैषध