________________ मेवधीयचरितं महाकाव्यम सकम्बलम्--कम्बलेन - उत्तरीयेण नागेन च सहितम् / ( 'कम्बलो नागराजे स्यात् सास्ना प्रावारयोरि'त्युभयत्रापि विश्वः)। नागबलम् = नागानां गजानाम् सणाच बलम् (10 तत्पु०) 'प्रहाग्राहिगजे नगाः' इत्युभयत्रापि वैजयन्ती। अश्वतरः वेसरः नागविशेषश्च 'अश्वतरोवेसरे च नागराजान्तरेऽपि च' इत्युभयत्रापि विश्वः / अत्रोभयो करिनागयो प्रकृतत्वात् केवलं प्रकृतिश्लेषः / प्रतियता नृपभीमपुरं भुवि क्षितिभृतां पुरतः सितवाजिनः / तदनु सोत्तरवस्त्रगजा ययुस्तदनु चाश्वतरा प्रययुः क्रमात् // पक्षेपातालतः प्रतियतः किल भीमपुर्या यद्वासुकेर्भुजगकम्बलनागसैन्यम् / कर्कोटकः प्रतिचकर्ष ततः परस्तात् वीरः समक्रमत चाश्वतराख्य नागः।। अनुवादः-भूतल पर कुण्डिनपुर को जाते हुये राजाओं के उत्तरीयवस्त्रयुक्त जिन गजों की सेना को अग्रेसर होकर श्वेत घोड़ों की सेना ने आकर्षण किया उसके पीछे खच्चरों की सेना प्रस्थान की। पक्ष में--पाताल से कुण्डिन पुर को जाते हुये वासुकि नामक नागराज की जिस कम्बल नाग युक्त सर्प सेना को पुरःसर होकर कर्कोटक नामक नाग ने आकर्षण किया उसका अनुसरण अश्वतर नामक नाग ने किया। आगच्छदुर्वीन्द्रच मूसमुत्थंभूरेणुभिः पाण्डुरिता मुखश्रीः। विस्पष्टमाचष्ट दिशां जनेषु रूपं पतित्यागदशानुरूपम् // 9 // अन्वयः-आगच्छदुर्वीन्द्रचमूसमुत्थः रेणुभिः पाण्डुरिता दिशां मुखश्री: पतित्यागदशानुरूपं रूपं जनेषु स्पष्टम् आचष्ट / व्याख्या-आगच्छदुर्वीन्द्रचमूसमुत्थः- आव्रजभूयसेनोद्गतः, रेणुभिःरजोभिः, पाण्डुरिता =धवलिता, दिशाम् = आशानाम्, मुखश्रीः= आननशोभा पतित्यागदशानुरूपम् = प्रोषितभर्तृकासहशम्, रूपम् =आकारम्, जनेषु लोकेषु, स्पष्टम् = स्फुटम्, आचष्ट = आख्यत् / टिप्पणी-आगच्छदुर्वीन्द्रचमूसमुत्थः आगच्छन्तश्च ते उर्वीन्द्राः (कर्मधारयः ) तेषां चम्वः (10 तत्पु०) तेषां चमूसमुत्थः (10 तत्पु० ) चमूभ्यः समुत्तिष्ठन्तीति चमूसमुत्थास्तै तथोक्तः (10 तत्पु०)। पाण्डुरिता- पाण्डुरा संजाता तारकादित्वादितच प्रत्ययः / पतित्यागदशानुरूपम्-पत्या त्यागः पति