________________ दशमः सर्गः यलोपौ तस्याः विलङ्घनम् तस्मिन् अशक्तिः तया विलम्बभाजाम् (क्रमेण ष० तत्पु० सप्तमी तत्पु० तृतीया तत्पु० ) विलम्ब भजन्तीति विलम्बभाज: भजधातोः सोपपदात् "भजोण्विः" इति ण्विप्रत्यये उपधावृद्धिः / आह्वानसंज्ञानम् = आह्वानस्य संज्ञानम् (10 तत्पु० ) अत्रोत्प्रेक्षालङ्कारः। भाव:--संरुद्ध * पथि नितरां धरणिभृतां कृतविलम्बानाम् / निजकम्पनसङ्केतैराह्वानसंज्ञानमिवाकरोत् पुरपताका // अनुवादः--कुण्डिननगरी की पताकाएं अपने अग्रभाग के कम्पन से सेनाओं की लम्बी कतारों के अतिक्रमण में असमर्थ होने के कारण विलम्ब करने वाले राजाओं को शीघ्न आने के लिये मानो सङ्केत ( इशारा ) कर रही थीं। प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं यदुच्चैः। भुवस्तले कुण्डिनगामि-राज्ञां यद्वासुकेश्चाश्वतरोऽन्वगच्छत् // 8 // अन्वया--भुवस्तले कुण्डिनगामिराज्ञां सकम्बलं यत् नागवलं की अटकः प्राग्भूय आचकर्ष, अन्यत्र पक्षे-भुवस्तले कुण्डिनगामिनः वासुकेः यत् उच्चः नागबलम् कर्कोटकः प्राग्भूय आचकर्ष तत् नागबलम् अश्वतर! अन्वगच्छत् / व्याख्या--भुवस्तले = भूपृष्ठे, कुण्डिनगामिनाम् = भीमभूपनगरयायिनाम् राज्ञाम् = भूपतीनाम्, सकम्बलम् = सोत्तरीयम्, उच्चः = महत्, तनागबलम् - यद् गजसैन्यम, अटकः = शीघ्रगामी, कर्कः= श्वेताश्वः, प्राग्भूय = पुरःसरो भूत्वा, आचकर्ष =आकृष्टवान्, तत् = नागबलम्, अश्वतरः = गर्दभादश्वायामुत्पन्नो वेसराख्यो वाहनविशेषः, अनुजगाम = अन्वसरत् / पक्षे-भुवः = पृथ्व्याः , तले = पाताले, कुण्डिनगामिनः वासुके:= नागराजस्य यत् उच्चैः सकम्बलम् = कम्बलाख्यनागसहितम्, यत् = सर्पसैन्यम्, कर्कोटकः = तन्नामा सर्पः प्राग्भूय आचकर्ष, तत् = सर्पसैन्यम्, अश्वतरः = तन्नामा नागविशेषः अन्वगच्छत् / कम्बल-कर्कोटाकाश्वतरादि नागयुक्तः वासुकिराजगामेत्यर्थः।। टिप्पणी-कुण्डिनगामिराज्ञाम् = कुण्डिनं गच्छन्तीति कुण्डिनगामिनः "सुप्यजातावि"त्यादिना णिनिः ते च ते राजानः (कर्मधारयः ) तेषां कुण्डिनगामिराज्ञाम्, (श्रितादिषु गमिगाम्यादीनामुपसङ्ख्यानात् द्वितीयासमासः ) / अटकः= अटतीत्यटकः अधातोः 'बहुलमन्यत्रापी'त्युणादिसूत्रेण क्वुन् प्रत्ययः युवोरित्यादिना अकादेशः / प्राग्भूय-व्यन्तस्य गतित्वात् गतिसमासे क्त्वोल्यप् / अश्वतर:-वत्सोक्षावर्षमेभ्यश्चेति तन्वर्थे तरप् प्रत्ययः तनुरश्वोऽश्वतरः /