________________ પ૧૪ જ્ઞાનસાર अनात्मशंसकस्तत्त्वदृष्टिः सर्वसमृद्धिमान् // 2 // . लोकसंज्ञाविनिर्मुक्तः शास्त्रदृग् निष्परिग्रहः // 3 // शुद्धानुभववान् योगी नियागप्रतिप्रत्तिमान् / भावार्चाध्यानतपसां भूमिः सर्वनयाश्रितः॥४॥ स्पष्टं निष्टङ्कितं तत्त्वमष्टकैः प्रतिपन्नवान् / मुनिर्महोदयं ज्ञानसारं समधिगच्छति // 5 // निर्विकारं निराबाधं ज्ञानसारमुपेयुषाम् / विनिवृत्तपराशानां मोक्षोऽत्रैव महात्मनाम् // 6 // चित्तमाकृतं ज्ञानसारसारस्वतोर्मिभिः / नाप्नोति तीव्रमोहाग्निप्लोषशोषकदर्थनाम् // 7 // अचिन्त्या काऽपि साधूनां ज्ञानसारगरिष्ठता। गतिर्ययोर्ध्वमेव स्यात् अधःपातः कदापि न // 8 // क्लेशक्षयो हि मण्डूकचूर्णतुल्यः क्रियाकृतः / दग्धतच्चूर्णसदृशो हानसारकृतः पुनः // 9 // ज्ञानपूतां परेऽप्याहुः क्रियां हेमघटोपमाम् / युक्तं तदपि तद्भावं न यद्भग्नाऽपि सोज्झति // 10 // क्रियाशून्यं च यज्ज्ञानं ज्ञानशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव // 11 // चारित्रं विरतिः पूर्णा ज्ञानस्योत्कर्ष एव हि / ज्ञानाद्वैतनये दृष्टिया तद्योगसिद्धये // 12 //