________________ 501 જ્ઞાનસાર हहा जहाति सद्धर्म तथैव जनरञ्जनैः // 2 // लोकसंज्ञामहानद्यामनुस्रोतोऽनुगा न के। प्रतिस्रोतोऽनुगस्त्वेको राजहंसो महामुनिः॥३॥ लोकमालम्ब्य कर्तव्यं कृतं बहुभिरेव चेत् / ... तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात् कदाचन // 4 // श्रेयोऽर्थिनो हि भूयांसो लोके लोकोत्तरे न च / स्तोका हि रत्नवणिजः स्तोकाश्च स्वात्मसाधकाः // 5 // लोकसंज्ञाहता हन्त नीचैर्गमनदर्शनैः। शंसयन्ति स्वसत्यांगमर्मघातमहाव्यथाम् // 6 // आत्मसाक्षिकसद्धर्मसिद्धौ किं लोकयात्रया / तत्र प्रसन्नचन्द्रश्च भरतश्च निदर्शने // 7 // लोकसंज्ञोज्झितः साधुः परब्रह्मसमाधिमान् / सुखमास्ते गतद्रोहममतामत्सरज्वरः // 8 // 24 शास्त्राष्टक चर्मचक्षुर्भूतः सर्वे देवाश्चावधिचक्षुषः / सर्वतश्चक्षुषः सिद्धाः साधवः शास्त्रचक्षुषः // 1 // पुरःस्थितानिवोधिस्तिर्यग्लोकविवर्तिनः / सर्वान् भावानवेक्षन्ते ज्ञानिनः शास्त्रचक्षुषा // 2 // शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते / वचनं वीतरागस्य तत्तु नान्यस्य कस्यचित् // 3 // शास्त्रे पुरस्कृते तस्माद् वीतरागः पुरस्कृतः / पुरस्कृते पुनस्तस्मिन् नियमात् सर्वसिद्धयः॥४॥