________________ - AR 51 17 निर्भयाष्टक यस्य नास्ति परापेक्षा स्वभावाद्वैतगामिनः। तस्य किं नु भयभ्रान्तिक्लान्तिसन्तानतानवम् // 1 // भवसौख्येन किं भूरिभयज्वलनभस्मना / सदा भयोज्झितज्ञानसुखमेव विशिष्यते // 2 // न गोप्यं क्वापि नारोप्यं हेयं देयं च न कचित् / क भयेन मुनेः स्थेयं ज्ञेयं ज्ञानेन पश्यतः // 3 // एकं ब्रह्मास्त्रमादाय निनन् मोहचमं मुनिः / बिभेति नैव संग्रामशीर्षस्थ इव नागराट् // 4 // मयूरी ज्ञानदृष्टिश्चेत् प्रसर्पति मनोवने / वेष्टनं भयसाणां न तदाऽऽनन्दचन्दने // 5 // कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभतिं यः / क्व भीस्तस्य क्व वा भङ्गः कर्मसंगरकेलिषु // 6 // तूलवल्लघवो मूढा भ्रमन्त्यभ्रे भयानिलैः / नै रोमापि तैनिगरिष्ठानां तु कम्पते // 7 // चित्ते परिणतं यस्य चारित्रमकुतोभयम् / अखण्डज्ञानराज्यस्य तस्य साधोः कुतो भयम् // 8 // 18 अनात्मशंसाष्टक गुणैर्यदि न पूर्णोऽसि कृतमात्मप्रशंसया / गुणैरेवासि पूर्णश्चेत् कृतमात्मप्रशंसया // 1 // श्रेयोद्रुमस्य मूलानि स्वोत्कर्षाम्भःप्रवाहतः /