________________ જ્ઞાનસાર 488 * यः स्नात्वा समताकुण्डे हित्वा कश्मल मलम् / पुनर्न याति मालिन्यं सोऽन्तरात्मा परः शुचिः // 5 // आत्मबोधो नवः पाशो देहगेहधनादिषु। .. यः क्षिप्तोऽप्यात्मना तेषु स्वस्य बन्धाय जायते // 6 // मिथोयुक्तपदार्थानामसंक्रमचमक्रिया। चिन्मात्रपरिणामेन विदुषैवानुभूयते // 7 // अविद्यातिमिरध्वंसे दृशा विद्याञ्जनस्पृशा / पश्यन्ति परमात्मानमात्मन्येव हि योगिनः // 8 // 15 विवेकाष्टक कर्म जीवं च संश्लिष्टं सर्वदा क्षीरनीरवत् / विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् // 1 // देहात्माद्यविवेकोऽयं सर्वदा सुलभो भवे / भवकोट्याऽपि तद्भेदविवेकस्त्वतिदुर्लभः // 2 // शुद्धेऽपि व्योम्नि तिमिराद् रेखाभिर्मिश्रता यथा / विकारैमिश्रता भाति तथाऽत्मन्यविवेकतः // 3 / / यथा योधैः कृतं युद्धं खामिन्येवोपचर्यते / शुद्धात्मन्यविवेकेन कर्मस्कन्धोजितं तथा // 4 // इष्टकाद्यपि हि स्वर्ण पीतोन्मत्तो यथेक्षते / आत्माभेदभ्रमस्तद्वद् देहादावविवेकिनः / / 5 / / इच्छन् न परमान् भावान् विवेकातः पतत्यधः / परमं भावमन्विच्छन् नाविनेके निमज्जति / / 6 / /