________________ સાનસાર चारित्रमात्मचरणाद् ज्ञानं वा दर्शनं मुनेः। .. शुद्धज्ञाननये साध्यं क्रियालामात् क्रियानये // 3 // यतः प्रवृत्तिर्न मणौ लभ्यते वा न तत्फलम् / अतात्विकी मणिज्ञप्तिर्मणिश्रद्धा च सा यथा // 4 // तथा यतो न शुद्धात्मस्वभावाचरणं भवेत फलं दोषनिवृत्तिर्वा न तज्ज्ञानं न दर्शनम् // 5 // यथा शोफस्य पुष्टवं यथा वा वध्यमण्डनम् / तथा जानन् भवोन्मादमात्मतृप्तो मुनिर्भवेत् // 6 // सुलभं वागनुच्चारं मौनमेकेन्द्रियेष्वपि / पुद्गलेष्वप्रवृत्तिस्तु योगानां मौनमुत्तमम् // 7 // ज्योतिर्मयीव दीपस्य क्रिया सर्वाऽपि चिन्मयी / यस्यानन्यस्वभावस्य तस्य मौनमनुत्तरम् / / 8 / / 14 विद्याष्टक नित्यशुच्यात्मताख्यातिरनित्याशुच्यनात्मसु / अविद्या तत्त्वधीविद्या योगाचार्यैः प्रकीर्तिता // 1 // यः पश्येन्नित्यमात्मानमनित्यं परसंगमम् / डलं लब्धुं न शक्नोति तस्य मोहमलिम्लुचः / / 2 / / तरङ्गतरलां लक्ष्मीमायुर्वायुवदस्थिरम् / अदभ्रधीरनुध्यायेदभ्रवद् भङ्गुरं वपुः // 3 // शुचीन्यप्यशुचीकर्तुं समर्थेऽशुचिसंमवे / देहे जलादिना शौचभ्रमो मूढस्य दारुणः // 4 //