________________ જ્ઞાનસાર mannnnn 12 निःस्पृहाष्टक खभावलाभात् किमपि प्राप्तव्यं नावशिष्यते / इत्यात्मैश्वर्यसंपन्नो निःस्पृहो जायते मुनिः॥१॥ संयोजितकरैः के के प्रार्थ्यन्ते न स्पृहावहैः / अमात्रज्ञानपात्रस्य निःस्पृहस्य तृणं जगत् // 2 // छिन्दन्ति ज्ञानदात्रेण स्पृहाविषलतां बुधाः। मुखशोषं च मूर्छा च दैन्यं यच्छति यत्फलम् // 3 // निष्कासनीया विदुषा स्पृहा चित्तगृहाद् बहिः / अनात्मरतिचाण्डालीसंगमङ्गीकरोति या // 4 // स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् / महाश्चर्य तथाप्येते मजन्ति भववारिधौ // 5 // गौरवं पौरवन्धत्वात् प्रकृष्टत्वं प्रतिष्ठया। ख्यातिं जातिगुणात् स्वस्थ प्रादुष्कुर्यान्न निःस्पृहः // 6 // भूशय्या भैक्षमशनं जीर्ण वासो गृहं वनम् / तथाऽपि निःस्पृहस्साहो चक्रिणोऽप्यधिकं सुखम् // 7 // परस्पृहा महादुःखं निःस्पृहत्वं महासुखम् / एतदुक्तं समासेन लक्षणं सुखदुःखयोः / / 8 // 13 मौनाष्टक मन्यते यो जगत्तत्वं स मुनिः परिकीर्तितः। सम्यक्त्वमेव तन्मौनं मौनं सम्यक्त्वमेव वा // 1 // आत्माऽऽत्मन्येव यच्छुद्धं जानात्यात्मानमात्मना / सेयं रत्नत्रये ज्ञप्तिरुच्याचारकता मुनेः / / 2 / /