________________ જ્ઞાનસાર 493 7 इन्द्रियजयाष्टक विभेषि यदि संसाराद् मोक्षप्राप्तिं च काससि / तदेन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम् // 1 // वृद्धास्तृष्णाजलापूर्णैरालवालैः किलेन्द्रियैः / मूर्छामतुच्छां यच्छन्ति विकारविषपादपाः // 2 // सरित्सहस्रदुष्पूरसमुद्रोदरसोदरः। तृप्तिमान् नेन्द्रियग्रामो भव तृप्तोऽन्तरात्मना // 3 // आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् / इन्द्रियाणि निबध्नन्ति मोहराजस्य किंकराः // 4 // गिरिमृत्स्नां धनं पश्यन् धावतीन्द्रियमोहितः / अनादिनिधनं ज्ञानधनं पार्श्वे न पश्यति // 5 // पुरः पुरः स्फुरनृष्णामृगतृष्णानुकारिषु / इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडाः // 6 // पतङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् / एकैकेन्द्रियदोषाच्चेद् दुष्टैस्तैः किं न पञ्चभिः // 7 // विवेकद्वीपहर्यक्षः समाधिधनतस्करैः।। इन्द्रियैर्यो न जितोऽसौ धीराणां धुरि गण्यते // 8 // 8 त्यागाष्टक संयतात्मा श्रये शुद्धोपयोगं पितरं निजम् / धृतिमम्बां च पितरौ तन्मां विसृजतं ध्रुवम् // 1 // युष्माकं संगमोनादिर्बन्धवोपनियतात्मनाम् /