________________ 86 सिद्धहैमबृहत्पक्रिया. [अव्यय अद्, कद्, यद् , तद् , इद् , चिद् , किद् , स्विद् , उत, बत, इव, तु, नु, यच, कञ्चन, किमुत, किल, किंकिल, किंस्वित् , उदस्वित् , आहोस्वित् , अहह, नहवे, नवे, नवा, अन्यत्, अन्यत्र, शव, शप, अथकिम्, विषु, पट्, पशु, खल, यदिनाम, यदुत, प्रत्युत, यदा, जातु, यदि, यथाकथाच, यथा, तथा, पुद् , अथ, पुरा, यावत् , तावत् , दिष्टया, मर्या, आम, नाम, स्म, इतिह, सह, अमा, समम् , सत्रा, साकम् , साधम् , ईम् , सीम् , कीम् , आम् , आस, इति, अव, अड, अट, बाह्या, अनुषक, खोस्, अ, आ, इ, ई, उ, अ, ऋ, ऋ, लु, लू, ए, ऐ, आ, औ, प्रादयः, इति चादयः / सूत्रे बहुवचनमाकृतिगणार्थम् / - 396 अधण्तस्वाद्याशसः॥११॥३२॥ धण्वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दस्वरूपमव्ययं स्यात् / देवा अर्जुनतोऽभवन् / ततः, तत्र, इह, क, कदा एतर्हि, अधुना, इदानीम् ,सद्यः, परेद्यवि, पूर्वेयुः, उभयेयुः, परुत्, परारि, ऐषमः, कर्हि, यथा, कथम् , पञ्चधा, एकधा, ऐकध्यम् , द्वैधम् , द्वेधा, पञ्चकृत्वः, द्विः, सकृत, बहुधा, प्राक, दक्षिणतः, पश्चात्, पुरः, पुरस्तात् , उपरि, उपरिष्टात्, दक्षिणा, दक्षिणाहिं, दक्षिणेन, द्वितीयाकरोति क्षेत्रम् , शुक्लीकरोति, अग्निसात् संपद्यते, देवत्राकरोति, बहुशः / अधणिति किम् / पथि द्वैधानि / संशयत्रैधानि / आ शस इति किम् / पचतिरूपम् / 397 विभक्तिथमन्ततसाद्याभाः // 1 // 1 // 33 // विभक्त्यन्तप्रतिरूपकास्थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूपकाश्च शब्दाअव्ययसंज्ञाः स्युः। अहंयुः। शुभंयुः / अस्तिक्षीरा ब्राह्मणी / कुतः / यथा। तथा / कमिति / अहं, शुभं, कृतं, पर्याप्तं, येन, तेन, चिरेण, अन्तरेण, ते, मे, चिराय, अह्नाय, चिरात् , अकस्मात् , चिरस्य, अन्योऽन्यस्य, मम, एकपदे, अग्रे, प्रगे, प्राणे, हेतो, रात्रौ, वेलायां, मात्रायाम्-एते प्रथमादिविभक्त्यन्तप्रतिरूपकाः / अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, बहि, मन्ये, शंक्ये, अस्तु, भवतु, पूर्यते, स्यात्, आस, आह, वर्तते, न वर्तते, याति, न याति, पश्य, पश्यत, आदह, आदङ्क, आतङ्क-इति तिवादिविभक्त्यन्तप्रतिरूपकाः। 398 वत्तस्याम् // 1 / 1 / 34 // वत्तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञः स्यात् / वत्तसिसाहचर्यादामिति तद्धितस्य ' किंत्यायेऽव्ययेत्यादिना विहितस्यामो ग्रहणम् / मुनेरह मुनिवद्. वृत्तम्। 'तस्याहे क्रियायां वत्' इति वत् / क्षत्रिया इव