________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु // वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ' // 1 // __ अन्वर्थाश्रयणे च स्वरायव्ययमव्ययं भवतीति स्वरादेविशेषणत्वेन तदन्तविज्ञानात् परमोच्चैः परमनीचैरित्यादावप्यव्ययसंज्ञा भवति / स्वर् , अन्तर् , सनुतर् , पुनर् , प्रातर्, सायम् , नक्तम्, अस्तम् , दिवा, दोषा, ह्यस्, श्वस् , कम् , शम् , योस् , मयस् , विहायसा, रोदसी, ओम् , भूस् , भुवस्, स्वस्ति, समया, निकषा, अन्तरा, पुरा, बहिस् , अवस्, अधस्, असांप्रतम् , अद्धा, ऋतम् , सत्यम् ,इद्धा, मुधा, मृषा, वृथा, मिथ्या, मिथो, मिथु, मिथस्, मिथुस् , मिथुनम् , अनिशम् , मुहुस, अभीक्ष्णम्, मक्षु, झटिति, उच्चैस , शनैस् , अवश्यम् , सामि, साचि, विष्वक, अन्वक, ताजा, द्राक्, साक, ऋधक, पृथक्, धिक, हिरुक, ज्योक, मनाक, ईषत्, ज्योषम्, जोषम्, तूष्णीम्, काम, निकामम् , प्रकामम् , अरम् , वरम् , परम् , आरात् , तिरस्, नमस, भूयस् प्रायस, प्रवाहु, प्रवाहुक, प्रवाहुकम्, आर्य, हलम् , आर्यहलम् , स्वयम् , अलम् , कु, बलवत् , अतीव, सुष्टु, दुष्ठु, ऋते, सपदि, साक्षात् , सन् , प्रशान् , सनात् , सनत् , सना, नाना, विना, क्षमा, आशु, सहसा, युगपत् , उपांशु, पुरतस्, इति स्वरादयः। सूत्रे बहुवचनमाकृतिगणार्थम् / तेनान्येषामपि चादिषूपात्तानामनुपात्तानां स्वरादिसधर्मणामव्ययसंज्ञा भवति / स्वरादयो हि स्वार्थस्य वाचका न तु चादिवद् द्योतका इति / अव्ययप्रदेशा अव्ययस्येत्यादयः। ___चादयोऽसत्वे / अव्ययसंज्ञाः स्युः / असत्वे इति किम् / यत्रैषां सत्वरूपेऽनुकार्यादाक्र्थे वृत्तिस्तत्र मा भूत् / चः समुच्चये / इव उपमायाम् / एवोऽवधारणे / च, अह, ह, वा, एव, एवम् , नूनम् , शश्वत् , सूपत् , कूपत् , कुवित् , नेत् , चेत् , नचेत्, चण, कचित् , यत्र, नह, नहि, हन्त, माकिस्, नकिस, मा, माङ, न, न , वाव, त्वाव, न्वाव, वावत् , त्वावत्, न्वावत्, त्वै, तुवै, न्वै, नुवै, रै, वै, औषट्, वौषट्, वषट्, वट, वाट, वेट, पाट्, प्याट, फट, हुंफट्, छंबट, अध, आत् , स्वधा, स्वाहा, अलम् , चन, हि, अथ, ओम् , अथो, नो, नोहि, भोस्, भगोस्, अघोस, अंघो, हंहो, हो, अहो, आहो, उताहो, हा, ही, हे, है, हये, अयि, अये, अररे, अङ्ग, रे, अरे, अवे, ननु, शुकम् , सुकम् , नुकम् , हिकम् , नहिकम् , ऊम्, हुम् , कुम्, उज, सुज, कम् , हम् , किम् , हिम् ,