SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 84 सिद्धहैमबृहत्प्रक्रिया. [अव्यय 393 वृत्यन्तोऽसषे // 11 // 25 // परार्थाभिधानं वृत्तिः। तद्वाँच पदसमुदायः समासादिः / तस्या अन्तोऽवसानं पदसंज्ञो न स्यात्, असषे-सस्य षत्वे तु पदसंज्ञा भवत्येव / इति पदत्वाभावानोत्वम् / न च सित्येवेति नियमे नैव पदत्वस्य निवर्तनं शक्यमिति किमनेन सूत्रेणेति वाच्यम् ! 394 प्रत्ययः प्रकृत्यादेः 7 / 4 / 115 // यस्माद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः / प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं वेदितव्यम्, नोनाधिकस्य / इति हि यस्मात् समुदायात् प्रत्ययविधानं तस्यैव पदत्वं नियमेन निवर्त्यते न तु तदवयवस्य / विमलदिवि / पुनस्तद्वत्, शेषं प्राग्वत् काष्ठतद्-ड् / काष्ठतक्षी / काष्ठतति / पुनस्तद्वत्, शेष पुंवत् / धनुः / धनुषी / न्समहतोरिति दीर्घ / धनूंषि / धनुषा / धनुर्ध्यामित्यादि / एवं चक्षुर्हविरादयः / पदान्त इति दीर्घे, पिपठीः / पिपठिषी / शावल्लोपस्य स्थानिवत्वाद् धुडन्तत्वाभावान नत्वम् / स्वविधौ स्थानिवत्वाभावात् स्वराच्छावित्यनेनापि न / पिपठिषि / पिपठिषा / पिपठीभामित्यादि पुंवत् / पयः। पयसी / पयांसि / पयसा / पयोभ्यामित्यादि / एवं वचःप्रभृतयः / सुपुम् / सुपुंसी / सुपुमांसि / अदः। द्विवचने अमे इति जाते / 'मादुवर्णो ऽनु' अम् / अमूनि / पुनस्तद्वत् / अनतो लुबिति से पि, सन्ध्वन्सिति दत्वम् / स्वनडुत्-द् / स्वनडुही / 'वाः शेषे ' स्वनड्वांहि / पुनस्तद्वत् , शेषं पुंवत् / इति श्रीसिद्धहैमबृहत्पक्रियायां व्यंजनान्तनपुंसकलिङ्गप्रकरणं समाप्तम् // // अथाऽव्ययप्रकरणम् // 395 स्वरादयोऽव्ययम् // 11 // 30 // स्वरादयः शद्धा अव्ययसंज्ञाः स्युः। स्वःसुखयति। एहि जाये स्वा रोहाव / स्वः संजानीते। स्वः स्पृहयति। स्वरागच्छति। छायेव या स्वर्जलधेर्जलेषु / स्वर्वसति / अन्तर्वसति / अन्तर्यामि / अत्युच्चैसौ, अत्युच्चैस इत्यत्रोच्चैरतिक्रान्तो यस्तदभिधायकस्य पूर्वपदार्थप्रधानस्य समासस्य संबंधी स्यादि।चैःशब्दस्य, तेन 'अव्ययस्य' इति लुब् न भवति / परमोच्चैः, परमनीचैरित्यत्र तु उत्तरपदार्थप्रधानत्वात् समासस्याव्ययसंबंध्येव स्यादिरिति भवत्येव / अन्वर्थसंज्ञा चेयमव्ययमिति, लिङ्गकारकविभक्तिनानात्वेऽपि न नानारूपतां प्रतिपद्यत इति / यदुक्तम्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy