SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् . सिद्धहैमबृहत्प्रक्रिया. र्णात् परस्यातुः स्थानेऽन्त इत्यादेशो वा स्यात्, ईप्रत्यये ङीप्रत्यये च परे। तुदन्ती। तुदती / तुदन्ति / भात्-द् / भान्ती / भाती / भान्ति / पचत्-द् / 388 इयशवः 2 / 1 / 116 // श्यात् शवश्च परस्यातुरीङन्योः परतोऽन्त इत्यादेशः स्यात् / पचन्ती / पचन्ति / दीव्यत् / दीव्यन्ती / दीव्यन्ति / ददत्-द्। द्विवचने ईपरतः ' अवर्णादश्न ' इत्यनेन कृतेऽप्यन्तादेशे 389 अन्तोनो लुक ॥४।२।९४॥युक्तजक्षपञ्चतः परस्य शितोऽवितोऽन्तः संबंधिनो नस्य लुक् स्यात् / इति नलोपे ददती / बहुवचने जसशसोः शौ परतः 390 शौ वा ॥४।२।९५॥व्यक्तजक्षपञ्चतः परस्यान्तो नस्य शिप्रत्यये लुग्वा स्यात् / ददति / ददन्ति / एवं जक्षत् / दरिद्रत् / जाग्रत् / चकासत् / शासत् / त्यदादीनामनतो लुबिति सेलपि त्यद् / द्विवचनादौ अत्वे त्ये। त्यानि / तद् / ते / तानि / यत् / ये / यानि / एतद् / एते / एतानि / अन्वादेशे तु एनत् / शेषं पुंवत् / अहन्शब्दस्य ' अह्न ' इति रुत्वे अहः 2 / ईडने वा / अह्नी / अहनी 2 अह्ना / अहोभ्यामित्यादि / ब्रह्मन्शब्दस्य ' नानो नोऽनह्न ' इति नलपि ब्रह्म / ब्रह्मणी / ब्रह्माणि / ब्रह्मणा / ब्रह्मभ्याम् / 391 क्लीबे वा // 2 / 1 / 93 // आमन्त्र्यविषयस्य नाम्नः क्लीबे नपुंसकलिङ्गे वर्तमानस्य नस्य लुग वा स्यात् / हे ब्रह्मन् / हे ब्रह्म। एवं चर्मदामप्रभृतयः / दण्डि / दण्डिनी / दण्डीनि / स्रग्वि / स्रग्विणी / स्रग्वीणि / वाग्मि / वाग्मिनी। वाग्मीनि / बहुत्रह / बहुकृत्रघ्नी / बहुवृत्रहणी / बहुतहाणि / बहुपूष / बहुपूष्णी। बहुपूषणी। बहुपूषाणि / बह्वयंम / बह्वर्यम्णी। बहबर्यमणी / बह्वर्यमाणि / स्वप्-ब् / स्वपी। 392 नि वा // 1 / 4 / 89 // अपःस्वरस्य नागमे सति घुटि परे वा दीर्घः। स्वाम्पि / स्वम्पि / स्वपा। स्वद्भ्यामित्यादि / एवमत्यप् / समासान्तविधेरनित्यत्वाद् बवप् / सेलप्तत्वात् किमः कादेशो न / किम् / के कानि / शेषं पुंवत् / इदम् / इमे / इमानि / पुनस्तद्वत् / अन्वादेशे एनत् / शेषं पुंवत् / वाः। वारी / धुडन्तत्वाभावान नत्वम् / वारि / चत्वारि / विमला द्यौ : यस्मिन् तत् विमलद्यु दिनम् / विमलदिवी / अत्र अन्तर्वर्तिनी विभक्तिमाश्रित्य स्थानिवद्भावेन पदत्वे प्राप्ते रुत्वं प्राप्तम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy