SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 89 सिद्धहैमबृहत्प्रक्रिया. [व्यंजनान्तनपुंसकलिङ्ग // अथ व्यंजनान्तनपुंसकलिङ्गप्रकरणम् / / चकारान्तो गवाञ्च् शब्दः / गामश्चतीति विग्रहः। गतौ नलोपः / ' स्वरे वाऽनक्षे' इत्यनेनावादेशः / गवाक्-ग् / वात्यसंधिः। गो अक्-ग। एदोत इति अस्य लुक, गोऽक्-ग् / पूजायां 'युजश्चक्रुश्चो नो ङः, गवाङ् / गो अङ् / गोऽङ् / अम्यप्येतान्येव नव / घुड्वर्जिते स्वरादौ ' अच्च प्राग दीर्घश्च' गोची। प्रजायां तु गवाञ्ची। गोअञ्ची / गोऽश्ची। नपुंसकस्य जसशसोः शिः , तस्य च घुसंज्ञकत्वेन ' अच' इति नत्वे गवाञ्चि / गतिपूजनयोस्त्रीण्येव / गोचा / गवाञ्चा / गोअञ्चा / गोऽश्चा। गवाग्भ्याम् / गोअग्भ्याम् गोऽग्भ्याम् / गवा'भ्याम् / गोअङ्भ्याम् / गोऽङ्भ्याम् इत्यादि / सुपि तु ङान्तानां पक्षे ' णोः कटावन्तौ शिटि न वा ' इति कत्वे गवाक्षु / गोअक्षु / गोऽक्षु / गवाक्षु / गोअषु / गोऽषु / गवाक्षु / गोअक्षु / गोऽक्षु / प्राक्-ग् / प्राची। पाश्चि / प्रत्यक्-ग् / प्रतीची / प्रत्यश्चि / समीची / सम्यश्चि / शेषं पुंवत् / जकारान्तोऽसृज शब्दः। अमृक्-ग् / असृजी / अमृञ्जि / शसादौ वाऽसन्नादेशे. असानिअसृजि / अस्ना / असृजा / असभ्याम् / असृग्भ्यामित्यादि / बहू-। बहूर्जी / 386 लो वा // 1 / 4 / 67 // रेफलकाराभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य धुटः माग नोऽन्तो वा स्यात् शौ परे / बहूजि / वहूजि / जगत्-द् / जगती / जगन्ति / पुनस्तद्वत्, शेषं मरुद्वत् / महत्-द् महती। न्समहतोरिति दीर्घ महान्ति / पुनस्तद्वत्, शेषं पुंवत् / यकृत्-द् / यकृती / यकृन्ति / शकृत्-द् / शकृती / शकुन्ति / अनयोः शसादौ वा यकन् शकन्नादेशे यकानि। यकृन्ति / शकानि / शकुन्ति / यना। यकृता / शक्का। शकृता / यकभ्याम् यकृद्भ्याम् / शकभ्याम् / शकुझ्यामित्यादि / तुदत्-द् / 387 अवर्णादश्नोऽन्तो वाऽतुरीयोः / / 2 / 1 / 115 // श्नावर्जितादव 1 गवाक्शब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः / असंध्यवाकारलोपैनवाधिकशतं मतम् // 1 // स्यमसुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जस्शसोः / चत्वारि शेषे दशके रूपाणीति विभावय // 2 // ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् / रूपाण्यश्वाक्षिभूतानि 527 भवन्तीति मनीषिभिः // 3 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy