SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. तः सौ सः / स्या / त्ये त्याः / सा / ते / ताः / या। ये / याः इत्यादि सर्वावत् / एषा / एते / एताः / एताम् / एते / एताः / एतया / एताभ्याम् 3 / एतयोः। एतयोः / अन्वादेशे एनाम् / एने / एनाः। एनया। एनयोः 2 / क्षुत्-द् / क्षुधौ / क्षुधः / क्षुधा। क्षुद्भ्यामित्यादि / पकारान्तो बहुवचनान्तोऽपशब्दः। 'अप' इति घुटि दीर्घ आपः / अपः / भकारादौ 'अपोऽझे' इत्यदादेशे अद्भिः / अद्भ्यः 2 / अपाम् / अप्सु / ककुभशब्दस्तुण्डिभशब्दवत् / किमः कादेशे इयम् / 'आद्वेर' इत्यत्वे आपि 'दो म' इति मत्वे च इमे / इमाः / इमाम् / इमे / इमाः / 'टौस्यनः' अनया / 'अनक् ' आभ्याम् 3 / आभिः। अस्यै / अस्याः 2 / अनयोः 2 / आसाम् / अस्याम् / आसु / अन्वादेशे एनाम् / एने / एनाः। एनया / एनयोः 2 / चतुरश्चतस्रादेशे स्वरादौ रत्वे च चतस्रः 2 / चतसृभिः / चतसृभ्यः 2 / दीर्घा नामीत्यत्र तिसृचतसृवर्जनात् चतसृणाम् / चतसृषु / गिशब्दस्य ‘पदान्त' इति दीर्घ गीः। गिरौ / गिरा। गीर्ष्यामित्यादि / एवं धूः। पू: / दिवशब्दस्य दिव औरित्यौत्वे द्यौः / दिवौ / 'उः पदान्ते' इत्युत्वे धुभ्याम्। धुषु / हे द्यौः / ऋत्विगित्यादिना गत्वे दिक्-ग् / दिशौ / दिशः। दिग्भ्याम् / दिक्षु / दृक्-ग। दृशौ। दृशः। दृग्भ्याम् / दृक्षु / त्विट्-ड् / त्विषौ, त्विषः / त्विषा / विड्भ्याम् / त्विट्त्सु-ट्सु / आशिस शब्दस्य षत्वं 'णषमसत्पर' इत्यनेनासदिति रुत्वे दीर्घ च आशीः / आशिषौ / आशिषः। आशीया॑म् इत्यादि / 'अदसो दः सेस्तु डौ' असौ। द्विवचने अत्वे, आपि, 'औता' इत्येत्वे, मत्वे अमुष्यै / अमूभ्यः 2 / अमुष्याः 2 / अमुयोः२ / अमूषाम् / अमुष्याम् / अमूषु / 385 नहाहोर्धतौ // 2 / 1 / 85 // नहेब्रूस्थानाहश्च धातोः संबंधिनो हकारस्य धुटि प्रत्यये पदान्ते च धकारतकारावादेशौ स्याताम् / उपानत्-द् / उपानहौ / उपानहः / उपानहा / उपानभ्याम् / उपानत्सु / ऊर्ध्व स्निह्यति नाति वा उष्णिक्-ग् / ऋत्विगित्यादिना गत्वम् / अथ च तत्रैव सूत्रे 'उष्णिह् ' इति निर्देशात् उदो दकारस्य लोपे सस्य षत्वं, नहेर्नकारस्य च ष्णिरादेशः / उष्णिहौ। उष्णिहः / उष्णिहा / उष्णिग्भ्यामित्यादि। इति श्रीसिद्धहैमबृहत्प्रक्रियायां व्यंजनान्तस्त्रीलिङ्गप्रकरणम् समाप्तम्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy