________________ सिद्धहैमबृहत्यक्रिया. [ व्यंजनान्तस्त्रीलिङ्ग न्यसंबंधिनि वा सौ परे धुटः प्राग नोऽन्तः स्यात् ' इति नत्वे पदस्येति हलोपे अनड्वान् / प्रियानड्वान् / अत्र सन्ध्वन्सित्यादिना दत्वं प्राप्तम् , नकारविधानसामर्थ्यान्न भवति / अनड्वाहा / अनड्वाहः। शसि अनडुहः / पदान्ते सर्वत्र दत्वे अनडुझ्यामित्यादि / संबोधने 'उतोनडुच्चतुरो वः' हे अनड्वन् / 382 हो धुट्पदान्ते // 2 / 1 / 82 // हकारस्य धुटि प्रत्यये पदान्ते च ढकारादेशः स्यात् / मधुलिट्-ड्। मधुलिहौ ।मधुलिहः। मधुलिहा। मधुलिड्भ्याम्। मधुलिट्त्सु। मधुलिट्सु / हे मधुलिट्-ड्। 383 भ्वादेर्दादेर्घः।।२।१।८३॥ भ्वादेर्धातोर्योदकारादिरवयवस्तदवयवस्य हकारस्य धुटि प्रत्यये पदान्ते च घकारादेशः स्यात् / ढस्यापवादः। गडदबादेरिति धत्वे गोधुक्-ग् / गोदुहौ / गोदुहः / गोदुहा / गोधुग्भ्याम् / गोधुक्षु / हे गोधुक् / एवं काष्ठधक् / भ्वादेरिति किम् / दामलिहमिच्छति क्यन् , किप, दामलिट्-ड् / एवं दृषघुट् / दादेरिति किम् / मधुलिट् / ह इत्येव / अदात् / धुट्पदान्त इत्येव / गोदुहौ। 384 मुहद्गृहस्नुहस्निहो वा // 2 / 1 / 84 // एषां संबंधिनो हकारस्य धुटि प्रत्यये पदान्ते च घकारादेशो वा स्यात् / द्रुहः प्राप्तेऽन्येषामप्राप्ते विकल्पः / उन्मुक्-ग् / उन्मुट्-ड् / उन्मुहौ / उन्मुहः। उन्मुहा। उन्मुग्भ्याम् / उन्मुड्भ्याम् / उन्मुक्षु / उन्मुटसु-ट्त्सु। एवं मित्रध्रुक्-ग्। मित्रध्रुट्-ड्। उत्स्नुक्-ग। उत्स्नुट-ड्। चेलस्निक्-ग् / चेलस्निट्-ड् / मुहादेरिति गणनिर्देशमकृत्वा धातुपरिगणनं यङ्लुप्यपि विध्यर्थम् / मोमोन्धि / मोमोढि / दोद्रोग्धि / दोद्रोढि / इति श्रीसिद्धहैमबृहत्मक्रियायां व्यंजनान्तपुंल्लिङ्गप्रकरणम् __ समाप्तम् // // अथ व्यंजनान्तस्त्रीलिङ्गप्रकरणम् // चकारान्तो वाच् शब्दः / वाक्-ग् / वाचौ / वाचः / वाचा / वाग्भ्यामित्यादि। मृज्यत इति क्रुध्संपदादित्वात् किप् / ऋखिगित्यादिसूत्रे 'सज्' इति निर्देशाद ऋतो रत्वं, तेनैव सूत्रेण च गत्वम् / स गतावित्यस्य वा वाऽकज् / सक्-ग स्रजौ / सजः। सजा / सम्भ्याम्। म्रक्षु / त्यदादीनामावर इत्यकारान्तत्वे आप् /