SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 79 375 वोशनसो नश्चामंत्र्ये सौ // 1 / 4 / 80 // आमंत्र्येऽर्थे वर्तमानस्योशनसशब्दस्य सौ परे नकारो लुक् चान्तादेशौ वा स्याताम् / हे उशनन् / हे उशन / हे उशनः / अनेहा / अनेहसौ। अनेहोभ्याम् / हे अनेहः / पुरुदंशा। पुरुदंशसौ / पुरुदंशोभ्यामित्यादि / वेधाः / वेधसौ। वेधोभ्यामित्यादि / अभ्वादेरित्यत्र भ्वादिवर्जनात् न दीर्घः। पिण्डं ग्रसते पिण्डग्रः। पिण्डग्रसौ। पिण्डग्रसः / एवं पिण्डग्लः / चर्म वस्ते चर्मवः। 376 अदसो दः सेस्तु डौ // 2 // 1 // 43 // त्यदादिसंबंधिनि सौ परेऽदसो दकारस्य सकारादेशः स्यात् , सेस्तुडौ / असौ / त्यदादिसंबंधिविज्ञानादिह न भवति / अत्यदाः / डित्करणमन्त्यस्वरादिलोपार्थम् / तेन ‘औता' 'एदापः' 'दीर्घङ्याब् ' ' अस्यायत्तत्क्षिपकादीनाम् ' इति कार्याणि न भवन्ति / अन्यथा 'दः सौ' इत्येतत् क्रियेत। . 377 असुको वाकि // 21 // 44 // त्यदादिसंबंधिनि सौ परेऽदसोऽकि सत्यसुक इति दस्य सः सकारात्परस्याकारस्योकारः सेश्च डौत्वाभावो वा निपात्यते / असकौ / केचित्तु असुकस् इति सान्तं सिना सह निपातयन्ति / द्विवचने त्यदायत्वे, लुगस्यादेत्यपद इति लुकि ऐदौत्संध्यक्षरित्यौत्वे च। 378 मोऽवर्णस्य // 2145 // अवर्णान्तस्य त्यदादिसंबंधिनोऽदसो * दकारस्य मकार आदेशः स्यात् / अमौ इति जाते 'मादुवर्णोनु-' अमू / सर्वादित्वाज्जस इः। अमे इति जाते / / 379 बहुष्वेरीः॥ 2 // 1149 // बहुष्वर्थेषु वर्तमानस्यादसो मकारात् परस्यैकारस्य स्थाने ईकार आदेशः स्यात् / अमी / अमुम् / अमू / अमून् / 380 प्रागिनात् // 2 // 1 // 48 // अदसो मात्परस्य वर्णमात्रस्येनादेशात् प्रागुवर्णः स्यात् / अन्विस्यापवादोऽयम् / अमुना / अमूभ्याम् 3 / इदमदसोऽक्येवेति नियमाद् भिस ऐस्त्वाभावे, एबहुस्भोसीत्येत्वे, बहुष्वेरीः-अमीमिः / अमुष्मै / अमीभ्यः 2 / अमुष्मात् / अमुष्य / अमुयोः 2 / अमीषाम् / अमुष्मिन् अमीषु / हे असौ / हे असुक / हे असकौ / अनडुङ् शब्दस्य ' वा शेषे' इत्यनेनोतो वादेशे कृते अवड्वाह सि इति जाते / 381 अनडुहः सौ // 1 // 4 // 72 // अनडुशब्दस्य धुडन्तस्य तत्संबंधिन्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy