________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. क्षत्रियवद्युध्यन्ते / 'स्यादेरिवे' इति वत् / पीलमूलेनैकदिक् पीलमूलतो विद्योतते विद्युत् / ' तसि ' रिति तसिः / उरसैकदिक् उरस्तः। ' यश्चोरस'-इति तसिः / आम्-उच्चैस्तराम् / उच्चैस्तमाम् / 399 क्त्वातुमम् 1 / 1 / 36 // क्त्वा तुम् अम् इत्येतत्प्रत्ययान्तं शब्दरूपमव्ययसंज्ञं स्यात् / कृत्वा / प्रकृत्य / कर्तुम् / अमिति णमुख्णमोरुत्सृष्टानुबंधयोग्रहणं न द्वितीयैकवचनस्य क्त्वातुम्साहचर्यात् / यावज्जीवमदात् / स्वादुंकारं भुकते। 400 गतिः // 11 // 36 // गतिसंज्ञाः शब्दा अव्ययसंज्ञाः स्युः। अदःकृत्य / अत्राव्ययत्वे ' अतः कृकमिकंस-इत्यादिना सकारो न भवति / 401 अव्ययस्य // 3 // 17 // अव्ययसंबंधिनः स्यादेलुप् स्यात् / स्वः , प्रातः इत्यादि / तत्संबंधिविज्ञानादिह न भवति / अतिस्वरः , अत्युच्चैसः / अतएव लुब्विधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते / ततश्चाथो स्वस्ते गृहम्, अथोच्चैर्म गृहमित्यादौ 'सपूर्वात्पथमान्ताद्वे ' ति विकल्पेन ते मे आदेशौ पदसंज्ञा च सिद्धा भवति / इत्यव्ययानि त्वलिङ्गान्यसंख्यानि च / तथाहुः ' नन्ता संख्या डतियुष्मदस्मच्च स्युरलिङ्गकाः // पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ' // 1 // इति श्रीसिद्धहैमबृहत्मक्रियायामव्ययप्रकरणं समाप्तम् // // अथ स्त्रीप्रत्ययप्रकरणम् / / 402 अजादेः // 2 / 4 / 16 // अजादिभ्य आवृत्त्याजादीनामेव स्त्रियां वर्तमानेभ्य आप् प्रत्ययः स्यात् / बाधकबाधनार्थमनकारार्थ च वचनम् / अजा।एडका। अश्वा। चटका। मूषिका। कोकिला। एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद आए / बाला। होडा / पाका / वत्सा / मन्दा / विलाता / कन्या मध्या / मुग्धा / विलातेत्यन्ये न पठन्ति, तेन विलातीत्यपि / एभ्यो वयोलक्षणस्य / ज्येष्ठा / मध्यमा। एभ्यो पवयोगलक्षणस्थ / पूर्वापहाणा / अपरापहाणा / निपातनाण्णत्वम् / संग्रहाणा / परमहाणेत्यप्यन्ये / एषु टिल्लक्षणस्य / त्रीणि फलानि समाहृतानि त्रिफला /