________________ गणपाठः] हैमपञ्चपाठी. 969 बन्धु / पक्ष / गन्ध / पिण्ड / देश / कर / लोहित / कुक्षि / वेणि इति धर्मादयः / बहुवचनमाकृतिगणार्थम् / 1085 पृषोदरादयः // 3 / 2 / 155 // पृषदुदरमुदरे वास्य पृषोदरः। पृषत उदरं पृषोदरम् / पृषत उद्वानं पृषोद्वानम् / जीवनस्य जलस्य मूतः पुटबन्धः जीमूतः। अत्र वनस्य लोपः। वारिणो वाहको बलाहकः। अत्र पूर्वपदस्य बः उत्तरपदादेश्च ल आदेशः। आध्यायन्ति तमिति आढ्यः / अत्र ध्यस्य ढ्यादेशः / कृच्छ्रेण दास्यते नास्यते दभ्यते च खलि, दुष्टो दासो नासो दम्भ इति वा दूडासः / दूणासः। दूडभः / दुष्टं ध्यायति दूढ्यः। एषु पूर्वपदस्य दुसो दूभावः उत्तरपदादेव डत्वणत्वढत्वानि दम्मेनलोपश्च / मह्यां रौति मयूरः / रौतेरच्यन्तलोपो महीशब्दस्य मयूभाषः / मह्यां शेते महिषः / डः / अत्र पूर्वपदस्य ह्रस्वत्वं शस्य च षत्वम् / पिशितमश्नाति पिशाचः / अत्र पिशितस्य पिशादेशः अश्नातेः शस्य चादेशः। शवानां शयनं श्मशानम् / पूर्वपदस्य श्मादेशः उत्तरपदस्य च शानादेशः। ब्रुवन्तोऽस्यां सीदन्ति विषीदन्ति बृसी / अत्र डट्प्रत्ययः / पूर्वपदस्य बृभावः / ऊर्ध्व खं बिलं वास्य उदूखलम् / उलूखलं वा / अत्र पूर्वपदस्योदूभाव उलूभावश्च उत्तरपदस्य खलादेशः / दिवि द्यौर्वाक एषां दिवौकसः। अत्राकारागमः / अश्व इव तिष्ठति अश्वत्थः। कपिरिव तिष्ठति कपयोऽस्मिस्तिष्ठन्ति इति वा कपित्थः। दनि तिष्ठति दधित्थः / मह्यां तिष्ठति महित्थः / एषु तिष्ठतेः सकारस्य तकारः। मुहुः स्वनं लाति मुहुर्मुहुर्लसतीति वा मुसलम् / अत्र मुहुःशब्दस्य मुभावः / स्वनशब्दस्य सभावः / पक्षान्तरे लसयोर्विपर्ययश्च। ऊध्र्वा कर्णावस्येत्युलूकः। अत्रो शब्दस्योलादेशः कर्णशब्दस्योकादेशश्च / मेहनस्य खं तस्य माला मेखला / अत्र मेहनखे हनस्य मालाशब्दे च माशब्दस्य लोपः / कौ जीर्यति कुञ्जरः / अत्र कुशब्दस्य मोऽन्तः / आश्वस्य विषमस्ति आशीविषः / अत्राशशब्दस्याशीभावः / बलं वर्धयति बलीवर्दः / अत्र बलस्येकारोऽन्तादेशो वर्धधकारस्य च दकारः / मनस ईष्टे मनीषी / अत्र मनसोऽन्त्यस्वरादिलोपः ईशेः शस्य च षः / बिलं दारयतीति बिडालः / अत्र बिलशब्दस्य ललोपः / उत्तरपदस्य डालादेशः। मृदमालीयते-डः-मृणालः। अत्र मृदो दकारस्य णकारः। असृगालीयते डः-सृगालः / अत्रादेापः / असृग्गलति वा सृगालः / अत्रासृज आद्यन्तलोपः / पुरो दाश्यते पुरोडाशः / अत्रोत्तरपदादेर्डत्वम् / अश्वस्याम्बा वडवा / अत्राश्वस्याशो लोपः। ड् चान्तः। अम्बाशब्दे च मोलोपः। शकस्यान्धुः शकन्धुः / अत्र पूर्वपदान्तस्योत्तरपदादेर्वा लोपः / एवं कर्कन्धुः / अटतोत्यच् अटा। कुलानामटा कुलटा। अव् अवाक् अटन्त्यस्मिन्निति बाहुलकात् 'पुंनाम्नि' इति घः अवटः / हिनस्ति सिंहः / अत्र तकारस्य लोपः / शकारलकारयोस्तु विपर्ययः / भ्रमन् रौति-डः भ्रमरः / अत्र तलोपः / एवंप्रकाराः शिष्टैः प्रयुक्ताः पृषोदरादयः / मयूरमहिषादीनामुणादौ व्युत्पादितानामपीह व्युत्पादनमनेकधा शब्दव्युत्पत्तिज्ञापनार्थम् / बहुवचनमाकृतिगणार्थम् / तेन मुहूर्तमारग्वधोऽश्व 122