________________ 968 हैमपञ्चपाठी. शकुली मत्स्यविशेषः / गोष्पदं गोसेविते प्रमाणे च / यत्र गावः पद्यन्ते स गोभिः सेवितो ग्रामसमीपादिदेश उच्यते / प्रमाणे गोष्पदपूरं वृष्टो देवः / गोष्पदमात्रं क्षेत्रम् / अत्र गोः पदमन्यस्येयत्तां परिच्छेत्तुमुपादीयमानं प्रमाणं भवति / अन्यत्र गोपदम् / अगोष्पदं सेवारहिते। न विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि / अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान् / ननु गोष्पदप्रतिषेधादगोष्पदमिति सिद्धयति / सत्यम् / किं तु यत्र गवां प्रसङ्गो ताभिः सेवितस्तत्रैव स्यात् / यथा यत्र शुक्लगुणप्रसङ्गः स एवाशुक्ल इति भवति नात्माकाशादि। यत्र तु गवामत्यन्तासंभवस्तत्र न स्यात् तत्रापि यथा स्यादित्येवमर्थ निपातनम् / न विद्यते गोः पदं यत्रेति त्रिपदबहुव्रीहिविवक्षायां रूपान्तरनिवृत्त्यर्थम् / बहुवचनमाकृतिगणार्थम् / तेनावोचपरोवरादयोऽपि दृष्टव्याः। 1020 अञ्जनादीनां गिरौ // 3 // 27 // अञ्जन भाञ्जन किंशुक किंशुलक साल्व लोहित कुक्कुट खड्न नल पिङ्गल इत्यञ्जनादिः / बहुवचनमाकृतिगणार्थम् / / 1021 अनजिरादिबहुस्वरशरादीनां मत्तौ // 378 // शरावती, वंशावती, शुचीमती / कुशावती। धूमावती। अहीवती। कपीवती / मुनीवती। मणीवती। वार्दावान्नाम गिरिः। वेटावान्नाम गिरिः। बहुवचनमाकृतिगणार्थम् / / बहुस्वरस्यानजिरादिविशेषणं किम् / अजिरवती। खदिरवती। खजुरवती। स्थविरवती / पुलिनवती / मलयवती। हंसकारण्डववती / चक्रवाकवती / अलंकारवती / शशाङ्कवती / हिरण्यवती / अजिरादिराकृतिगणः / 1031 अपील्वादेर्वहे // 3 / 2 / 89 // अपील्वादेरिति किम् / पीलुवहम् / दारुवहम् / चारुवहम् / 1066 नखादयः // 3 / 2 / 128 // नास्य खमस्तीति नखः / न भ्राजते इति नभ्राट् क्विबन्तः / न पातीति नपात् शत्रन्तः / न वेत्तीति नवेदाः / न असत्यः नासत्यः / न मुञ्चतीति नमुचिः / नास्य कुलमस्तीति नकुलः / एवं न न पातीति नपात् / न न वेत्तीति नवेदाः / न न मुञ्चतीति नमुचिः / न न कुलमस्त्यस्य नकुलः / न न खमस्त्यस्य नखः / न पुमान् न स्त्रीति नपुंसकम् / न क्षीयते न क्षरति वा नक्षत्रम् / औणादिके त्रुटि क्षभावे निपात्यते / न क्रामति न क्रीणाति वा नकः / डप्रत्ययो निपातनात् / नास्मिन्नकं दुःखमस्ति नाकः / न विद्यन्ते ग्नाः श्रियः छन्दांसि वास्य नग्नः / न अगः नागः / न विद्यते भागोऽस्य नभागः / नारमञ्चति नाराचः। न आप्यत इति नापितः। न मीयतेऽसाविति नमेरुः / नाभिनन्दति वधूमिति ननान्दा / नान्तरेण भवति नान्तरीयकम् / न न चिकेति नाचिकेतः। अत एव निपातनात् कित् ज्ञापनार्थी जुहोत्यादौ दृष्टव्यः / अस्माच्च नञ्चयोपपदान्नाम्नि शब् प्रत्ययो भवति / बहुवचनमाकृतिगणार्थम् / तेन नास्तिकः / नभः। नारङ्गमित्यादयो द्रष्टव्याः / 1080 समानस्य धर्मादिषु // 3 / 2 / 149 // धर्म / जातीय / नामन् / गोत्र / रूप / स्थान / वर्ण / वयस् / वचन / ज्योतिस् / जनपद / रात्रि / नाभि /