SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ मणपाठः] हैमपश्चपाठी. 1012 वर्चस्कादिष्ववस्करादयः // 32 // 48 // वर्चस्केऽवस्करः / अवकीर्यतेऽवस्करः अन्नमलम् / तत्संबंधात् तद्देशोऽप्यवस्करः। अवकरोऽन्यः। अपस्करो रथाङ्गे / अपकरोऽन्यः / कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातौ / तत्फलान्यपि कुस्तुम्बुरूणि / अन्यत्र कुतुम्बुरुस्तिन्दुकवृक्षः / अवरस्परा अपरस्परा वा क्रियासातत्ये। अवरस्पराः सार्था गच्छन्ति-सततं गच्छन्तीत्यर्थः। अन्यत्रावरपराः सार्था गच्छन्ति / अवरे च अपरे च सकृदेव गच्छन्तीत्यर्थः / आस्पदं प्रतिष्ठायाम् / प्रतिष्ठा स्थानमात्मयापनापदम् / अन्यत्र आ ईषत् पदमा पदावा आपदम् / आश्चर्यमद्भुते / आश्चर्य नीला द्यौः / प्रस्कण्वहरिश्चन्द्रावृषी / प्रगतं कण्वं पापमस्मादिति प्रस्कण्वः / हरिश्चन्द्रइवाह्लादको यस्य हरिश्चन्द्रः। ऋषेरन्याय प्रकण्वो देशः / हरिचन्द्रो माणवकः / मस्करो वेणुदण्डयोः / मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः। मकरशब्दस्य वाऽव्युत्पन्नस्य मस्कर इति रूपम् / अन्यत्र मकरो ग्राहः / मस्करी परिव्राजके / माकरणशीलो मस्करी / सह्याह माकृषत कर्माणि शान्तिर्वः श्रेयसीति / मकरिनशब्दस्य वा मस्करोति रूपम् / अन्यत्र मकरीति समुद्रः / कास्तोराजस्तुन्दे नगरे / ईषत्तीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम् / कास्तीरमजस्तुन्दं च नगरम् / अन्यत्र कातीरम् / अजतुन्दम् / कारस्करो वृक्षे / कारं करोति किल कारस्करो वृक्षः / कारकरोड न्यः / वनस्पतिः पुष्पं विना फलवति वृक्षे / सर्वा हरितकायो वनस्पतिरित्यन्ये / वनपतिरन्यः। पारस्करो देशे। पारं करोति पारस्करो देशः। पारकरोऽन्यः / करस्करो गिरिवृक्षयोः। करं करोति इति करस्करो नाम गिरिः / करस्करो वृक्षः / करकरोऽन्यः / रथस्पा नद्याम् / रथं पाति पिबति वा रथस्पा नाम नदी / रथपाऽन्या / किष्कुरुः प्रहरणे / कस्य कुरुः किष्कुरुः नाम प्रहरणम् / किमो मकारस्य षकारादेशः। किष्कुः प्रमाणे। किमपीषत्परिमेया कुर्भूमिरस्य किष्कुः वितस्तिर्हस्तो वा / किं करोतीति वा किष्कुः / करोतेईप्रत्ययः किमो मकारस्य च षकारः / कार्यं करोतीति वा किष्कुः / डुप्रत्ययः कार्यशब्दस्य किष्भावः / किष्किन्ध इति गुहापर्वतयोः / किमप्यन्तर्दधाति किष्किन्धा नाम गुहा / किमो द्विर्वचनं पूर्वस्य च मकारस्य षकारः / किं किं दधाति किष्किन्धः पर्वतः। आस्कथं नगरे। आहृताः कथा अस्मिन्नित्यास्कन्थं नाम नगरम् / तस्करश्चौरे / तत् करोति तस्करश्चौरः / बृहस्पतिर्देवतायाम् / बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः। उभयत्र तकारस्य सकारः। अन्यत्र तत्करः बृहस्पतिः / प्रायश्चित्तप्रायश्चित्ती अतीचारशोधने। प्रकर्षेणैत्यागच्छत्यस्मदाचारधर्म इति प्रायो मुनिलोकः / चिन्त्यते स्मर्यते इति चित्तम् चित्तिश्च व्रतम् / प्रायश्चित्तं चिन्तितं किल्बिषविशुद्धये / प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिक्रमणादि / एवं प्रायश्चित्तिः। पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये / प्रायःश्चित्तम् / प्रायःश्चित्तिः / अन्ये तु प्रायणं प्रायः तस्य चित्तं प्रायश्चित्तं प्रायश्चित्तिरित्यपि मन्यन्ते / शष्कुली कृतान्ते / शष्कुलशब्दाद् गौरादित्वाद् ङीः। कृतान्नादन्यत्र HHHHHHHHHHHHHHHI
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy