SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ हैमपञ्चपाठी. रणाग्नी / अग्निसमीरणौ / आदित्यचन्द्रौ / चन्द्रादित्यौ / पाणिनीयरौढीयाः। रौढीयपाणिनीयाः / जित्याविपूयविनीयाः / विपूयविनीयजित्याः / इत्यादिष्वल्पस्वरत्वान्नित्वं पूर्वनिपाते प्राप्ते / ब्राह्मणक्षत्रियविट्शूद्राः / शूद्रविक्षत्रियविप्राः / भीमसेनार्जुनौ / अर्जुनभीमसेनौ। देवापिशंतनू / शंतनुदेवापी / इति वर्ण. भ्रातृलक्षणेऽनुपूर्व निपाते प्राप्ते विकल्पार्थ वचनम् / बहुवचनमाकृतिगणार्थम् / तेन वसन्तग्रीष्मौ। ग्रीष्मवसन्तौ। शुक्रशुची। शुचिशुक्रौ इत्यादयोऽपि द्रष्टव्याः। 907 गवाश्वादिः // 3 // 1 // 144 // गौश्चाश्वश्च गवाश्वम् / गवाविकम् / गवैडकम् / अजाविकम् / अजैडकम् / कुब्जवामनम् / कुञ्जकैरातम्। कुब्जकैरातकम्। पुत्रपौत्रम्। नित्यवैराभावपक्षे श्वचण्डालम् / स्त्रोकुमारम् / दासीमाणवकम् / शाटीपच्छिकम्। उष्ट्रखरम् / मूत्रशकृत् / मूत्रपुरीषम / यकृन्मेदः / मांसशोणितम् / दर्भशरम्। दर्भपूतीकम् / अर्जुनपुरुषम् / तृणोलुपम् / कुडीकुडम् / दासीदासम् / भागवतोभागवतम् / त्रिष्वेतेषु 'पुरुषः स्त्रिया' 3-1-125 इत्येकशेषो न भवति निपातनात्। गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः। गोऽश्वौ / गोऽश्वम् / गोअश्वौ / गोअश्वम् / गोऽविको / गोऽविकम् / गवेलको। गवेलकम् / पशुविभाषैव भवति / ___908 न दधिपयआदिः // 3 / 1 / 145 // दधि च पयश्च दधिपयसी / सर्पिर्मधुनी / मधुसर्पिषी / हरिवासवौ / ब्रह्मप्रजापतो। शिववैश्रवणौ / स्कन्दविशाखौ। परिजाकौशिकौ / प्रवापसदौ / आद्यवसाने / सूर्याचन्द्रमसौ / मित्रावरुणौ / अग्नीषोमौ / सोमारुद्रौ / नारदपर्वतौ / खण्डामौ / नरनारायणौ / रामलक्ष्मणौ / भीमार्जुनौ / कम्बलाश्वतरौ / मातापितरौ / पितापुत्रौ। श्रद्धामेधे / शुक्लकृष्णे / इध्माबर्हिषी / पूर्वस्य दीर्घत्वं निपातनात् / ऋक्सामे। वाङ्मनसे / अत्र 'ऋक्सामय॑जुष' 7-2-97 इत्यादिनाकारान्तत्वम् / याज्यानुवाक्ये / दीक्षातपसो / श्रद्धातपसी / श्रुततपसी। मेधातपसी। अध्ययनतपसी। उलूखलमुशले / अत्राद्येषु त्रिषु व्यञ्जनविकल्पे शुक्लकृष्णे इत्यत्र ‘विरोधिनामद्रव्याणाम्' इति विकल्पे, इध्माबहिषी, उलूखलमुशले 'अप्राणिपश्वादेः' 3-1-136 इति नित्यमेकत्वे शेषेषु च 'चाथै द्वन्द्वः सहोक्तौ' इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् / चण्डालमृतपाश्च द्रष्टव्याः। 993 भीरुष्टानादयः // 2 // 3 // 33 // भीरुष्ठान / अङ्गुलिषङ्ग। सव्येष्ट्र / परमेष्ठिन् / सुष्टु / दुष्ठु / अपष्ठु / वनिष्ठु / गौरिषक्थ। प्रतिष्णिका / नौषेचिका / दुन्दुभिषेवणः / इति भोरुष्ठानादयः / बहुवचनमाकृतिगणार्थम् / 997 गिरिनद्यादीनाम् // 2 // 3 // 68 // गिरिणदी। गिरिनदी / गिरिणखः। गिरिनखः। गिरिणद्धः / गिरिनद्धः / गिरिणितम्बः / गिरिनितम्बः / चक्रणदी। वक्रनदी। वक्रणितम्बा। वक्रनितम्बा। चक्रणितम्बा। चक्रनितम्बा। माषोणः।माषोनः। तूर्यमाणः। तूर्यमानः। आर्गयणः / आर्गयनः / ऋगयनं वेत्त्यधीते वेत्यण् / ऋगयनस्य व्याख्यानं तत्र भवो वा शिक्षादित्वादण् / बहुवचनायथादर्शनमन्येऽपि भवन्ति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy