________________ गणपाठः] हैमपञ्चपाठी. 965 हान् / अत्र गुणेन तरबन्तेन निर्धारणषष्ठीसमासस्तरब्लोपश्च / बहुवचनमाकृतिगणार्थम् / तेन विस्पष्टं पटुः विस्पष्टपटुः / पुना राजा पुनाराजः / एवं पुनर्गवः / पादाभ्यां ह्रियते इति पादहारकः / गले चोप्यत इति गलेचोपकः / सायंदोहः / प्रातर्दोहः / पुनहिः / सायमाशः / प्रातराश इत्यादयो द्रष्टव्याः। 849 राजदन्तादिषु // 3 / 1 / 149 // राजदन्तः / लिप्तवासितम् / सिक्तसंमृष्टम् / भृष्टलुञ्चितम् / नग्नमुषितम् / अवक्लिन्नपक्वम् / अर्पितोतम् / उप्तगाढम् / ऋणे अधमः अधमर्णः-अत्र 'सप्तमी' // 3 / 1 / 88 // इति प्रथमोक्तत्वेन पूर्वनिपातेऽधमस्य पूर्वनिपातः / एवमुत्तमर्णः / उलूखलं मुशलं च उलूखलमुशले / अत्र मुशलशब्दस्याल्पस्वरत्वात् पूर्वनिपाते प्राप्ते उलूखलशब्दस्यानेन पूर्वनिपातः / एवं तन्दुलकिण्वम् / चित्रस्थवाहीको / स्नातकराजानौ / उशीरबीजशिक्षास्थम् / आरट्वायनिचान्धनि / अधरोष्ठम् / वैकारिमतगाजवाजम् / गौपालिधानपूलासम् / कुरण्डस्थलपूलासम् / दारजारौ / दारशब्द एकवचनान्तोऽप्यस्ति / अत्र नियमे दारार्थम् / अत्र तु स्वराद्यदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते दारशब्दस्य पूर्वनिपातः / एवं विष्वक्सेनार्जुनौ / शूद्रायौँ। विषयेन्द्रियाणि / गवाश्वम् / अवन्त्यश्मकाः / चित्रास्वाती माणविके / केशश्मश्रु / अत्रेदुदन्तत्वेन स्वातिश्मश्रुशब्दयोः पूर्वनिपाते प्राप्ते चित्राकेशयोः पूर्वनिपातः / एवं भार्यापती। पुत्रपतो। स्वसृपती / जंपतो / दंपती / गणपाठाजायाशब्दस्य जंभावो दंभावश्च वा निपात्यते / पुत्रपशू / शिरोजानु / शिरोविजु / नरनारायणौ / अय॑त्वानारायणस्य पूर्वनिपाते प्राप्ते नरस्य पूर्वनिपातः / एवं सोमरुद्रौ / कुबेरकेशवौ काकमयूरौ / उमामहेश्वरौ / पाण्डुधृतराष्ट्री / च्येष्ठभ्रातृत्वेन धृतराष्ट्रस्य पूर्वनिपाते प्राप्ते पाण्डोः पूर्वनिपातः / एवं विष्णुवासवौ / बहुवचनमाकृतिगणार्थम् / तेन क्वचिद् विकल्पः। पुरुषोत्तमः / उत्तमपुरुषः। मध्यगृहम् / गृहमध्यम् / अधरबिम्बम् / बिम्बाधरः / ओष्ठबिम्बम् / बिम्बोष्ठः। इत्यादि / 886 मृगक्षीरादिषु वा // 3 / 262 // मृग्याः क्षोरं मृगक्षीरम् मृगीक्षीरम् / एवं मृगपदम् मृगीपदम् / मृगशावः मृगीशावः। कुकुटाण्डम् , कुक्कुट्यण्डम् / मयूराण्डम् , मयूर्यण्डम् / काकाण्डम् , काक्यण्डम् / काकशावः, काकीशावः / 888 धर्मार्थादिषु द्वन्द्वे // 3 / 1 / 159 // धर्मार्थो / अर्थधी / कामार्थो / अर्थकामौ / शब्दार्थी / अर्थशब्दौ / आद्यन्तौ / अन्तादी / अग्नोन्द्रौ / इन्द्राग्नी / चन्द्राको / अर्कचन्द्रौ / अश्वत्थकपित्थौ / कपित्थाश्वत्थौ / इत्यादिषु स्वराद्यदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते / सर्पिर्भधुनो। मधुसर्पिषो / गुणवृद्धी / वृद्धिगुणौ। दीर्घलघू / लघुदी? / चन्द्रराहू / राहुचन्द्रौ / इत्यादिष्विदुदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते / तपःश्रुतौ श्रुततपसी / द्रोणभीष्मौ, भीष्मद्रोणौ / इत्यादिष्वय॑त्वानित्यं पूर्वनिपाते प्राप्ते / शकृन्मूत्रम् , मूत्रशकृत् / कुशकाशम् / काशकुशम् / करभरासभौ / रासभकरभौ। इत्यादिषु लध्वक्षरत्वात् पूर्वनिपाते प्राप्ते // समी