________________ हैमपञ्चपाठी. समाम्नात / संभावित / अवधारित / अवकल्पित / निराकृत / उपकृत / अपाकृत / कलित / उदाहृत / उदीरित / उदित / दृष्ट / विश्रुत / विहित / निरूपित / आसीन / आस्थित / अवबद्ध इति कृतादयः / बहुवचनमाकृतिगणार्थम् / 847 कुमारः श्रमणादिभिः // 3 / 1 / 117 // [ तत्रैव प्रक्रियायां तत्पुरुषसमासप्रकरणे श्रमणादयो निर्दिष्टाः ] 848 मयूरव्यंसकेत्यादयः // 3 / 1116 // मयूरव्यंसकः / छात्रव्यंसकः। कम्बोजमुण्डः। यवनमुण्डः / / ____ एहीडादयोऽन्यपदार्थे / एहीडम्, एहियवं वर्तते / एवम् एहिवाणिजा / प्रेहिवाणिजा / अपेहिवाणिजा / पहिस्वागता / अपेहिस्वागता / एहिद्वितीया / अपेहिद्वितीया / एहिप्रघसा। अपेहिप्रघसा। एहिविघसा। अपेहिविघसा। एहिप्रकसा। अपेहिप्रकला। प्रोहकटा। प्रोहकर्दमा। प्रोहकपर्दा / उद्धमचूडा। आहरचेला। आहरवसना। आहरवितता। कृन्धि विचक्षणेति कृन्धि विचक्षणमिति वा यस्यां सा कृन्धिविचक्षणा क्रिया / भिन्धि लवणमिति यस्यां सा भिन्धिलवणा / एवं पचलवणा। उद्धरोत्सृजेति जल्पो यस्यां सोद्धरोत्सृजा। एवमुद्धरावसृजा / उद्धमविधमा। उद्वपनिवपा। उत्पतनिपता। उत्पचनिपचो / कृन्धि विक्षिणीहीति कृन्धि विक्षणु इति वा यस्यां सा कृन्धिविक्षणा / उन्मजावमृजेति यस्यां सोन्मजावमृजा / अत एव निपातनादिहैव च मृजेही शो भवति / गतप्रत्यागतादयः // गतं च तत्प्रत्यागतम् च गतप्रत्यागतम् / एवं यातानुयातम् / महान् क्रयोऽल्पः क्रयिका क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासो क्रयिका च क्रयक्रयिका समुदायः / एवं पुटापुटिका / फलाफलिका / मानोन्मानिका / शाकपार्थिवादयः // शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवः पृथोरपत्यं शाकपार्थिवः / पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः / कुतपवस्त्रसौश्रुतः / सुश्रुतोऽपत्यं सौश्रुतः / कुतपसौश्रुतः / अजापण्यस्तौल्वलिः अजातौल्वलिः। यष्टिप्रहरणो यो मौद्गल्यः यष्टिमौद्गल्यः। एवं परशुरामः। घृतप्रधाना रोटिः घृतरोटिः / एवमोदनपाणिनिः। आणिमाण्डव्यः। बलाकाकौशिकः / विदर्भीकौण्डिन्यः। सहस्रबाहुरर्जुनः सहस्रार्जुनः। व्यवयवा विद्या त्रिविद्या / एकाधिका दश एकादश / एवं द्वादश / षोडश / एकविंशतिः। द्वाविंशतिः। एकशतम् / द्विशतम् / दध्युपसिक्त ओदनो दध्योदनः / एवं घृतौदनः / गुडमिश्रा धाना गुडधानाः / एवं तिलपृथुकाः। अश्वयुक्तो रथः अश्वरथः / एवं गजरथः / घृतपूर्णा घटः घृतघटः / अत्र शाकपार्थिवादिषु प्रियादेरुत्तरपदस्य लोपः / तृतोयो भागः त्रिभागः। तृतीयभागः। व्यंशः। तृतीयांशः। षड्भागः। षष्ठभागः। षडंशः / षष्ठांशः / त्रिदिवं तृतीयदिवम् / त्रिविष्टपं, तृतीयविष्टपमित्यादिषु पूरणप्रत्ययस्य वा लुग् भवति / तथा सर्वेषां श्वेततरः सर्वश्वेतः / एवं सर्वम