SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ गणपाठः] हैमपञ्चपाठी. 817 काकाद्यैः क्षेपे // 3 / 090 // तीर्थे काक इव तीर्थकाकः। एवं तीर्थध्वांक्षः। तीर्थवायसः। तीर्थवकः / तीर्थश्वा / तीर्थसारमेयः / तीर्थकुक्कुटः। तोर्थशृगालः। बहुवचनमाकृतिगणार्थम् / 818 पात्रेसमितेत्यादयः // 3 / 1191 // पात्र एव समिताः पात्रेसमिताः। एवं पात्रेबहुलाः / गेहेशूरः / गेहेदाही। गेहेक्ष्वेडी / गेहेनर्दी / गेहेनी / गेहमेव विजितमनेन गेहे विजिती / इष्टादेः इतीनि व्याप्ये क्तेनः इति सप्तमी / एवं गेहेविचिती / गेहेव्यालः / गेहेपटुः। गेहेपण्डितः / गेहेप्रगल्भः। गोष्ठेशूरः। गोष्ठेक्ष्वेडी / गोष्ठेनर्दी / गोष्ठेविजिती। गोष्ठेव्यालः / गोष्ठेपटुः / गोष्ठेपण्डितः। गोष्ठेप्रगल्भः / एषु अवधारणेन क्षेपो गम्यते / उदुम्बरे मशक इव उदुम्बरमशकः। एवमुदुम्बरकृमिः। कूपकच्छपः / कूपमण्डूकः / अवटकच्छपः / अवटमण्डूकः / उदपानमण्डूकः / अल्पदृश्वैवमुच्यते / नगरकाकः / नगरवायसः / नगरश्वा / एतैः सदृशो धृष्ट उच्यते / उदुम्बरमशकादिषूपमया क्षेपो गम्यते / गेहमेही / पिण्डीशूरः / य आवश्यकार्थमपि बहिर्न निर्गच्छति भोजन एव च संरभते च स एवमुच्यते / अत्रावधारणेन निरुत्साहता तया च क्षेपो गम्यते / पितरि शूरः। मातरि पुरुषः / यः सदाचारं भिनत्ति स एवमुच्यते / अत्र प्रतिषिद्धासेवनेन क्षेपो गम्यते / गर्भधीरः। गर्भशूरः। गर्भसुहितः / गर्भेतृप्तः / गर्भेदृप्तः / योऽ. लोकाभिमानित्वादनुचितचेष्टः स एवमुच्यते / तत एव च क्षेपो गम्यते / कर्णेटिरिटिरिः / कर्णेचुरुचुरः / कर्णेटिरिटिरा / कर्णेचुरुचुरा / चापलेनानुचितचेष्टोच्यते। टिरिटिरीति गत्यनुकरणंचुरुचुर्विति वाक्यानुकरणम्। तत् करोति णिजन्तादप्रत्ययो निपातनसामर्थ्याच्चानो न भवति। बहुवचनमाकृतिगणार्थम् / तेन व्रणकृमिः / गृहसर्पः / गृहकलविङ्कः। आखनिकवकः इत्यादयो गृह्यन्ते / 828 निन्द्यं कुत्सनैरपापाद्यैः // 3 // 11100 // अपापाचैरिति किम् / पापवैयाकरणः / अणकवैयाकरणः / प्रवृत्तिनिमित्तमेव कुत्स्यते / एवं पापकुलालः / अणकनापितः / हतविधिः / दग्धदैवम् / दुष्टामात्याः / क्षुद्रतापस इत्यादि / 830 उपमेयं व्याघ्राद्यैः साम्यानुक्तौ // 3 // 1 // 102 // व्याघ्र / सिंह। ऋषभ / वृषभ / महिष / चन्दन / वृक / वराह / हस्तिन् / कुञ्जर / रुरु / पृषत / पुण्डरीक / पलाविका / क्रुश्चा। बहुवचनमाकृतिगणार्थम् / तेन वाग्वज्रः, मुखपद्म, पाणिपल्लवं, ककिसलयं, वदनेन्दुः, पर्थिवचन्द्रः, वानरश्वा, कुचकुम्भस्तनकलशादयोऽपि भवन्ति / 833 श्रेण्यादिकृत्याद्यैश्च्व्य र्थे // 3 // 1 // 104 // श्रेणि। ऊक / पूग / कुन्दुम / कन्दुम / राशि / निचय / विशिष्ट / निर्धन / कृपण / इन्द्र / देव / मुण्ड / भूत। श्रमण / वदान्य / अध्यायकः। अध्यापक / ब्राह्मण / क्षत्रिय / पटु / पण्डित / कुशल / चपल / निपुण इति श्रेण्यादिः / कृत / मत / मित / भूत / उप्त / उक्त / समाज्ञात / समाख्यात /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy