________________ हैमपश्चपाठी. [ हैममध्यं दिनस्य मध्यंदिनम् / मध्यं रात्रे मध्यरात्रः। उपारताः पश्चिमरात्रगोचरात् इत्यादयः / बहुवचनमाकृतिगणार्थम् / 782 जरत्यादिभिः // 3255 // अर्धा जरत्या अर्धजरती तत्तुल्यम् अर्धजरतीयम् / अर्धवैशसम् / अक्तिम् / अर्धविलोकितम् / पक्षे जरत्यर्ध इत्याद्यपि भवति / बहुवचनमाकृतिगणार्थम् / 789 श्रितादिभिः // 3 // 1162 // श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न गमिन् गामिन् आगामिन् / इति श्रितादयः / बहुवचनमाकृतिगणार्थम् / तेन ओदनबुभुक्षुः हिताशंसुः तत्त्वबुभुत्सुः सुखेच्छुः इत्यादि सिद्धम् / ___794 ऊनार्थपूर्वाद्यैः // 3 // 1 // 67 // पूर्व / अवर / सदृश / सम / कलह / निपुण / मिश्र / श्लक्ष्ण इति पूर्वादयः / आकृतिगणोऽयम् / तेन धान्येनार्थो धान्यार्थः। हिरण्यार्थः / आत्मनापञ्चमः / आत्मनाषष्ठः / 'पतावलुप्समासौ' माषेणाधिकं माषाधि / 798 हिंतादिभिः // 3 / 1 / 71 // हित / सुर्ख। रक्षित / बलि / इति हितादयः। आकृतिगणोऽयम् / तेन अश्वघासः। श्वश्रूसुरा / श्वश्रूसुरम् / हस्तिविधानम् / धर्मनियमः / धर्मजिज्ञासा / नाट्यशाला / आत्मनेपदम् / परस्मैपदम् इत्यादि सिद्धम् / कृत्यप्रत्ययान्तं चेह पठ्यते / देवदेयम् / ब्राह्मणदेयम् / वरप्रदेया कन्या / इह न भवति ब्राह्मणाय दातव्यम् / 800 पञ्चमी भयाद्यैः // 3 // 173 // भय / भीत / भीति / भी / भीरु / भीलुक / निर्गत / जुगुप्सु / अपेत / अपोढ / मुक्त / पतित / अपत्रस्त इति भयादयः / आकृतिगणश्चायम् / तेन द्वीपान्तरानीतः / स्थानभ्रष्टः / तात्परः तपरः इत्यादि सिद्धम् / 805 याजकादिभिः // 3 / 1178 // याजक / पूजक / परिचारक / परिवेषक / स्नापक / अध्यापक / आच्छादक / उन्मादक / उद्वर्तक / होत / भर्तृ / आकृतिगणोऽयम् / तेन तुल्यार्था अपि / गुरुसदृशः। गुरुसमः। दास्याः सदृशः। वृषल्याः समः / 'षठ्याः क्षेपे' इत्यलुप् / तथा अन्यत्कारकम् / विश्वगोप्ता / तीर्थकर्ता / तत्प्रयोजको हेतुश्च / जनिकर्तुः प्रकृतिः। इत्यादि सिद्धम् / 815 सप्तमी शौण्डाद्यः // 3 / 188 // शौण्ड / धूर्त / कितव / व्याल / सव्य / आयस / व्यान / सवीण / अन्तर / अधीन / पटु / पण्डित / कुशल / चपल / निपुण / सिद्ध / शुष्क। पक्क / बन्ध / बहुवचनमाकृतिगणार्थम् / तेन शिरःशेखरः / हस्तकटकः / आपातरमणीयः / अवसानविरसः / पृथिवीविदितः / पृथिवीप्रणतः / अन्तेगुरुः / मध्येगुरुः / ऋणेऽधमः अधमर्णः / ऋणे उत्तमः उत्तमर्णः। राजदन्तादित्वात् परनिपात इत्यादि सिद्धम / 816 सिंहाद्यैः पूजायाम् // 3 // 1689 // समरे सिंह इव समरसिंहः / एवं रणव्याघ्रः / भूमिवासवः / कलियुधिष्ठिरः / बहुवचनमाकृतिगणार्थम् /